मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 188, कुल 672 में से
संदर्भ में पढ़ें46 मानमेयरहस्यश्लोकवार्तिके तत्रतत्र सुखादीनि कार्याणि प्रतिपद्यते । युगपद्यदि सर्वत्र कार्यमात्मगतं भवेत् ॥ ततस्सर्वगतत्वं स्यात् पर्याये तु शरीरवत् । अन्यथा सर्वगतता शरीरस्यापि कथ्यताम् ॥ नैवं स्वतोऽप्यमूर्तत्वात् न मूर्तैर्मिश्रताऽऽत्मनः । ततश्च तैरसंश्लिष्टः न नेतुं शक्यते क्वचित् ॥ मूर्तानामपि सूक्ष्माणां चन्द्रदीपरवित्विषाम् । न मृत्पिण्डादिभिस्साकं मिश्रणं नयनं क्वचित् ॥ स्याद्वादिभिर्मता मूर्ता बद्धा जीवास्तथाऽपि ते । शरीरसंपर्कायत्तमूर्ततारहिताः पुनः ॥ ज्वालादीनां स्पर्शवत्त्वात् वायुना चोल्मुकादिना युक्तं स्यान्नयनं वक्तुं तस्मात्सर्वगतः पुमान् ॥ 8 असर्वगतपक्षे स्यात् जीवो देहादनिर्गतः । अणुश्शरीरमात्रो वा सर्वथाऽपि न युज्यते ॥ यद्यणुः कल्प्यते तत्र देहं न व्याप्नुयादसौ । ततश्च सर्वगात्रस्थसुखप्राप्त्याद्यसंभवः ॥ लघुसंचारयोगेन संभवो निष्प्रमाणकः । बह्वदृष्टं कल्पनीयं यथा स्यादवधार्यताम् ॥ सद्भावोऽवयवानां च तथा तेषामनन्तता । अश्लेषश्च विनाऽन्येन तद्भावेऽपि च नित्यता ॥