मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 190, कुल 672 में से
संदर्भ में पढ़ें148 मानमेयरहस्यश्लोकवार्तिके देशव्याप्त्या यदीष्येत सुखादेरुपभोग्यता । ततो दोषः प्रसज्येत योग्यभोगे त्वदुष्टता ॥ 10 चलनादिक्रियाहीनोऽप्यसौ कर्तृत्वमात्रतः । देशान्तरप्रापणादिक्रियार्होऽतो न निष्क्रियः ॥ कर्तैव चाश्रयः तस्य कर्माप्यत्रैव च स्थितम् । अत एव स्थितं ह्येतत्कर्तृत्वं सर्वकर्मसु ॥ यदि स्वसमवैतैव शक्तिरिष्येत कर्मणाम् । तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति । कथमन्यत्रान्यशक्तिः समवैतीति चेत् शृणु । अत्यन्तभेदाभावो हि यागदानक्रियात्मनोः ॥ शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते । तद्गतैवाभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपिवा ॥ तादर्थ्येन हि शेषत्वं नाश्रयाश्रयिभावतः । राजार्थौपयिकं नित्यमुष्ट्रो वहति कुङ्कुमम् ॥ आत्माश्रिताङ्गपूर्वाणामेकार्थसमवायतः । प्रधानैस्सह संबन्धात् न तेषां पुरुषार्थता ॥ अर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते । ततस्तत्सिद्धये भूयस्स्यादपूर्वान्तरप्रमा ॥ प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥