भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 192, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 192

150 मानमेयरहस्यश्लोकवार्तिके उद्भिज्जं दैवमिति च द्विविधं तैर्न हीष्यते । इमशाने जायते वृक्ष इत्यादिस्त्वर्थवादगीः ॥ 2 प्रकाशरूप एवात्मा न स्वयं स्वस्य गोचरः । न परोक्षो न चाध्यक्षोऽपरोक्ष इति निर्णयः ॥ अतश्च मोक्षे दृषदा तौल्यमापाद्यते परैः । संवित्तिफलभागिन्यप्यात्मनीष्टा न कर्मता ॥ गन्तृवत्, परगामित्वं फलस्यास्ति विशेषणम् । आत्मा विषयसंवित्तेर्गोचरः सर्वदा ततः ॥ संवित्त्युपायोपरमे सन्मात्रं स्वापवन्मतः । विशेषोऽभिमतः कैश्चिदात्मनां स्वापमोक्षयोः ॥ संवित्तिवत्स्वतस्सिद्धमात्मानमपरे विदुः । निरूपकत्वाश्रयत्वयुता विषयता हि सा ॥ प्रकाशैकस्वरूपत्वात् स्वतो वा परतोऽपि वा । प्रकाशांशानपेक्षत्वं केचिदत्र प्रचक्षते ॥ घटादयो ह्यप्रकाशस्वरूपाः तदपेक्षिणः । विषयव्यपदेश्यास्स्युः आत्मा सर्वविलक्षणः ॥ प्रकाशतत्त्वनिष्कर्षः वासनैकनिबन्धनः । सौगतानां रीतिरन्या तार्किकाणां विलक्षणा ॥ देहादिव्यतिरिक्तत्वयुक्तयः प्राक्प्रपञ्चिताः । न विशेषः विशेषांशस्त्वियानन्यत्र विस्तरः ॥