मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 193, कुल 672 में से
संदर्भ में पढ़ेंबादरायणात्मा 19 3 जयन्तन्यायमञ्जर्यां गुरूणामात्मनिर्णयः । कृतः तस्यापि सारांशसंक्षेपात्किंचिदुच्यते ॥ गुरूणामपरोक्षोऽसावात्मा चापरसाधनः । चितिशक्तिस्वभावश्च तस्यैषा विवृतिर्यथा ॥ आत्मा ज्ञानेन जन्येन न चकास्ति घटादिवत् । अपितु स्वत एवासौ संविद्वदवगम्यते ॥ अनेककारकाधीनाऽप्येषा संवित्करोति तम् । आत्मानमेव ज्ञातारं चित्स्वभावोऽतएव सः ॥ संवित्तयैव संवेद्या यथा संवित्तथैव च । स्याद्ग्राहकतयैवात्मा ग्राह्यः ग्राह्यतया न तु ॥ तयोः प्रकाशयोर्मध्ये परोक्षो ज्ञानलक्षणः । व्यापारो जायते तस्य फलं संवित्तिरिष्यते ॥ द्वैरूप्यचोदना यैषा कर्तृता कर्मतेति च । नात्मन्यस्मिन् पक्ष इति दृश्यते न्यायमञ्जरी ॥ अहंप्रत्ययकर्तृत्वेनैव सिद्धिरिहात्मनः । अहंप्रत्ययकर्मत्वेनैवेत्याहुः कुमारिलाः ॥ (35) बादरायणात्मा 1 यत्तु लोकायतः प्राह देहान्न व्यतिरिच्यते । आत्मेति तत्र प्रत्युक्तमाचार्यैर्बादरायणैः॥