मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 194, कुल 672 में से
संदर्भ में पढ़ें152 मानमेयरहस्यश्लोकवार्तिके एक आत्मन इत्यादिसूत्रेष्विति हि भाषितम् । श्रीशङ्करादिभिः यत्तत्सारांशोऽत्रावधार्यताम् ॥ यो मन्येतात्मधर्माणां देहभावे तु भावतः । शरीरधर्मतां सोऽसौ देहभावेऽप्यभावतः ॥ अतद्धर्मत्वमेवैषां किं न मन्येत बुद्धिमान् । अपिचैते देहधर्मवैलक्षण्यान्न देहगाः ॥ ये तु रूपादयो धर्माः यावद्देहं भवन्ति ते । प्राणचेष्टादयो न स्युः मृतावस्थे शरीरके ॥ देहधर्मश्च रूपादिः परैरप्युपलभ्यते । नत्वात्मधर्मश्चैतन्यस्मृत्यादिरिति भाव्यताम् ॥ किंच जीवति देहेऽस्मिन्त्येषां भावोऽवगम्यते । असत्यभावो निश्चेतुं तेषां नैव हि शक्यते ॥ कदाचित्पतितेऽप्यस्मिन् देहे देहान्तराश्रयात् । अनुवृत्तिर्भवेदात्मधर्माणामिति शङ्क्यते ॥ न निवर्तयितुं शक्या सहसा विपरीतधीः । इति संशयमात्रेण परपक्षो निषिद्ध्यते ॥ 2 किंच भूतेभ्य उत्पत्तिमिच्छन् धीमन्निदर्शनः । किमात्मकं पुनरिदं चैतन्यं मन्यते भवान् ॥ नहि भूतचतुष्केभ्यः किंचित्त्वं विलक्षणम् । भवान् प्रत्येति येनैतज्जायेत मदशक्तिवत् ॥