मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 196, कुल 672 में से
संदर्भ में पढ़ें154 मानमेयरहस्यश्लोकवार्तिके तथैव सति देहेऽस्मिन् साधने धीर्भविष्यति । न भविष्यत्यसति च न स्याद्देहगता ततः ॥ देहेनापि नचात्यन्तमुपयोगोऽत्र दृश्यते । निश्चेष्टेऽपिच देहेऽस्मिन् दृश्यन्ते स्वाप्रसंविदः ॥ तस्माद्देहातिरिक्तत्वमनवद्यं तथाऽस्तिता । इत्यात्मचिन्ता युक्तिस्था विज्ञेया बादरायणी ॥ चैत्रस्तारक्ष्वीं स्वप्ने तनुमास्थाय बुध्यते । मानुषीमात्मनः पश्यन् तनुं तदुभयानुगम् ॥ आत्मानमनुसंधत्ते स्वयं देहविलक्षणम् । सर्वलोकप्रसिद्धोऽयं प्रत्ययोऽप्यवमृश्यताम् ॥ (36) वेदान्तात्मा. 1 अथ सर्वार्थसिद्धयुक्तः वैदिकात्मविनिर्णयः । विलिख्यते सुनिष्पन्नः विस्तरोऽन्यत्र दृश्यताम् ॥ मनुष्योऽहं कृशः स्थूलः इत्यादिसार्वलौकिकः । अभेदप्रत्ययोऽह्यस्ति नीलो घट इतीदृशः ॥ मम देहोऽप्यहमिमं जानामीत्यादिभेदधीः । अपिह्यस्ति मम क्षेत्रमित्यादिप्रत्ययो यथा ॥ लोके भेदेऽप्यभेदेन प्रत्ययो दृश्यते यथा । सेयं ज्वाला तथाचायो दहतीत्यादिलक्षणः ॥