मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 197, कुल 672 में से
संदर्भ में पढ़ेंतथा भेदप्रत्ययोऽपि ह्यभेदेऽपिच दृश्यते । चन्द्रद्वयं घटमठाकाश इत्यादिलक्षणः ॥ बलाबलव्यवस्थायां कर्तव्यायां प्रसज्यते । सर्वत्राप्रामाण्यशङ्का यथा चैषाऽवधार्यताम् ॥ निर्वापितारोपितवत् ज्वालैक्यप्रत्ययस्थले । सादृश्यसाद्देश्यमुखदोषाणां संभवो यथा ॥ अयःपिण्डस्थलेऽन्योन्यव्यतिहारधियामपि । हेतुर्विलक्षणो योगः यथा स्यात्प्रकृते तथा ॥ साद्देश्यसंसर्गमुखदोषसद्भावशङ्कया । स्यादभेदप्रत्ययोऽप्रामाण्यशङ्काकलङ्कितः ॥ तथा भेदप्रत्ययोऽपि शिलापुत्रस्य देहवत् । राहोश्शिरोवदैक्यस्याग्रहणाद्वा भवेदिति ॥ तादृशाप्रामाण्यशङ्काकलङ्कान्न विमुच्यते । घटस्यात्मेत्यादिवत्तु ममात्मेत्यन्यथा भवेत् ॥ 2 एवंच नित्यशास्त्रोत्थसंप्रदायानुसारतः । भेदधीः प्रबला नान्येत्याहुश्शास्त्रैकलोचनाः ॥ यथा चन्द्रे यथा सूर्ये परिमाणाल्पविभ्रमः । दिङ्मोहादिभ्रमश्चैव तलमालिन्यविभ्रमः ॥ एवंलक्षणकस्सर्वश्शास्त्रेणैव निवार्यते । तथा शास्त्रानुग्रहेण बलाबलविनिर्णयः ॥