मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 198, कुल 672 में से
संदर्भ में पढ़ें156 मानमेयरहस्यश्लोकवार्त्तिके ततः स्वतो वा युक्त्या वा योगदर्शनतोऽपिवा । आत्मनः सिद्धिरित्याहुः इति देहात्मसंग्रहः ॥ (37) आर्हतात्मा. 1 आर्हतानामात्मतत्त्वं प्रागेव सुनिरूपितम् । तदेवचात्माऽध्यायेऽस्मिन् अन्यूनत्वाय चिन्त्यते देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । स्वयंप्रकाशप्रत्यक्षसिद्ध आत्मेति निर्णयः ॥ आत्मा चैतन्यरूपस्स्यात्परिणामी करोति च । साक्षाद्भोक्ता स्वीयदेहसमानपरिमाणवान् ॥ प्रतिक्षेत्रं विभिन्नश्च विचित्रश्चाप्यनन्तकः । स च पौद्गलिकादृष्टसंयुतः पुरुषार्थभाक् ॥ आत्मतत्त्वं तु सहजचिद्रूपपरिणामवत् । आवृतिप्रक्षयादेषः सार्वज्ञ्यैकरसः स्वयम् ॥ ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ उपादेयं परं ज्योतिरुपयोगैकलक्षणः । उपयोगः कर्मणैकीभूतस्यास्य विवेचनम् ॥ 2 औदयश्चौपशमिकः क्षायिकः पारिणामिकः । एते जीवस्य चत्वारः भावाः पर्यायलक्षणाः ॥