मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 210, कुल 672 में से
संदर्भ में पढ़ेंइदं कौमारिलमतमुक्तं तादात्म्यलक्षणम् । पातञ्जलार्हदादीनां सिद्धान्तोऽप्ययमेव हि ॥ अत्रैव च क्वचित्कांचिद्विशेषं परिगृह्य ये । प्रवृत्ता मतभेदास्ते सन्ति वेदान्तिनामपि ॥ सत्यासत्यविभागेनाविरोधं केचिदूचिरे । प्रतीत्यैव विरोधस्य पराहतिरितीतरे ॥ परे विप्रतिपद्यन्ते प्रतीतावेव तादृशि । तत्त्वं देवो विजानाति चित्रा मानुषशेमुषी ॥ (३९) द्रव्यवादः. 1 द्रव्यादिव्यवहारेषु विकल्पोऽथ प्रदर्श्यते । न द्रव्यं नाम वस्त्वस्ति वस्तुत्वेऽपि गुणादितः ॥ नातिरिक्तं पृथक्त्वेऽपि न प्रत्यक्षं तदिष्यते । प्रत्यक्षेऽपि विकल्पोऽयमिति वादः प्रवर्तते ॥ उपलम्भे विश्रमोऽतः तत्रापि शपथोक्तयः । एवं प्रकारस्सर्वत्र विचारः सौगताहृतः ॥ गुणे कर्मणि सामान्ये विशेषादौ प्रवर्तते । विवर्तवासना काचिन्महती तैस्समाश्रिता ॥ तामेवाश्रित्य कतिचित् स्वंस्वं सिद्धान्तमभ्यधुः । तद्विवर्तपदार्थेऽपि विकल्पो विविधोऽस्ति हि ॥