मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 214, कुल 672 में से
संदर्भ में पढ़ेंगुणे द्रव्यव्यपेक्षेऽपि द्रव्येऽपि गुणकाङ्क्षिणि । अन्योन्यनिरपेक्षे च गुणद्रव्ये प्रसिद्ध्यतः ॥ सर्वेषां वासना प्रायस्तर्कशास्त्रानुसारिणी । यतः पदार्थसंशुद्ध्यै शास्त्रमेतत्प्रवर्तितम् ॥ अतस्तदनुरोधेन गुणोद्देशोऽत्र गृह्यते । रूपं रसस्ततो गन्धस्स्पर्शस्संख्या ततः परम् ॥ परिमाणं पृथक्त्वं च संयोगस्तदनन्तरः । विभागश्च परत्वं चापरत्वं बुद्धिरेवच ॥ ततस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् । द्रवत्वस्नेहसंस्काराः शब्दोऽदृष्टं गुणा इमे ॥ न गुणानां पृथक्सत्ता व्याहारो द्रव्यसत्तया । इति केचित्तार्किकाश्च प्राहुरित्यपि दृश्यते ॥ स्वरूपमेव संबन्धः स स्वभावनिबन्धनः । इत्याहुर्गुणगुण्यायोस्समवायं द्विषन्ति ये ॥ विशेषसामान्यभेदात् गुणान् द्वेधा विदुर्बुधाः । सामान्यद्रव्यवृत्तित्वे सामान्यगुणेतेष्यते ॥ विशेषद्रव्यवृत्तित्वे तत्त्वं प्राहुः कुमारिलाः । रूपं गन्धो रसः स्पर्शः स्नेहस्सांसिद्धिको द्रवः ॥ बुद्ध्यादिभावनावन्ताश्च शब्दो वैशेषिका गुणाः । संख्यादिरपरत्वान्तः द्रवोऽसांसिद्धिकस्तथा ॥