भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 213, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 213

गुणवादः 171 एवंविधविचारे तु प्रतिष्ठा कुत्र शाश्वती । इति संचिन्त्य मध्यस्थाः सम्प्रदायमुपाश्रयन् ॥ सर्वेऽपि हि स्वोपलम्भं वदन्त्यखिलसाक्षिकम् । तथाच लोकानुभवोऽप्येवमेवेति सम्भ्रमात् ॥ तेन वादी स्वोपलम्भं भ्रमबुद्ध्या त्यजेदपि । त्रासितोऽपि बुधैरेवं न बिभेति विशुद्धधीः ॥ भवन्ति बहवः क्लीबाः अचलो यस्स बुद्धिमान् । इत्यतो वादभेदोऽपि सत्त्वाशयवशानुगः ॥ (40) गुणवादः. 1 गुणाः प्रधानं सांख्यानां त्रयस्सत्त्वादिलक्षणाः । अप्रधानं याज्ञिकानां मतं द्रव्यादिलक्षणम् ॥ शक्त्यादयो गुणाः प्रोक्ता ह्यर्थशास्त्रविशारदैः । शोभादयो गुणास्त्विष्टाः काव्यालङ्कारवेदिभिः ॥ शुक्लादयो गुणाः केचित्तार्किकैः परिभाषिताः । दोषप्रतिद्वन्दितया गुणास्स्युस्सर्वसम्मताः ॥ रज्ज्वादिकं तु संघातं वस्त्वस्ति गुणशब्दितम् । तस्मात्सामान्यतो दृष्टौ वस्तुमात्रं गुणो मतः ॥ तथैव सर्वशब्दो हि वस्तुमात्रे प्रयुज्यते । तथापि पारिभाषिक्या वृत्त्या शास्त्रे व्यवस्थितिः॥