भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 212, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 212

अवस्थाधारता द्रव्यमिति स्वायंभुवादयः । आगन्तुकापृथक्सिद्धधर्मोऽवस्थेति कीर्त्यते ॥ स्फुरद्द्रव्यमिळद्धर्मोऽवस्थेत्येके विदुर्बुधाः । अवस्थातद्वतोर्भेदाभेदं तु बहवो विदुः ॥ द्रव्यं नित्यमवस्थास्स्युरनित्या इति भाषितम् । पातञ्जले महाभाष्ये सुवर्णमकुटादिवत् ॥ ३ एवं गुणपदं कर्मपदाद्यमपि दृश्यते । वस्तुमात्रे संप्रयुक्तं कथं तत्त्वव्यवस्थितिः ॥ तस्माद्वस्तुव्यवस्थायां व्यवहारा न चेशते । प्रयोगाल्पत्वभूयस्त्वनिर्णयः प्राज्ञदुश्शकः ॥ तस्माद्विरुद्धसंस्कारशिक्षितानां मनीषिणाम् । अन्योन्यं प्रत्यवस्थाने व्यवहारान्न निर्णयः ॥ अतएव हि शब्दानां सर्वेषां सर्वशक्तताम् । सर्वात्म्यवादिनः प्राहुः व्यवस्थां सहकारिभिः ॥ सहकारिविकल्पस्तु वासनामनुवर्तते । अतश्च वासना सर्वमिति सौगतनिर्णयः ॥ ४ वासनानां तु वैचित्र्यं वस्तुवैचित्र्यमूलकम् । वैचित्र्यं चापि वस्तूनां स्वभावादिति तद्विदः ॥ एवंविधाऽपि काचित्स्याद्वासनेति च सौगताः । साऽपि बाह्यार्थनिष्ठेति विदुर्बाह्यार्थवादिनः ॥