भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

गुणवादः 171 एवंविधविचारे तु प्रतिष्ठा कुत्र शाश्वती । इति संचिन्त्य मध्यस्थाः सम्प्रदायमुपाश्रयन् ॥ सर्वेऽपि हि स्वोपलम्भं वदन्त्यखिलसाक्षिकम् । तथाच लोकानुभवोऽप्येवमेवेति सम्भ्रमात् ॥ तेन वादी स्वोपलम्भं भ्रमबुद्ध्या त्यजेदपि । त्रासितोऽपि बुधैरेवं न बिभेति विशुद्धधीः ॥ भवन्ति बहवः क्लीबाः अचलो यस्स बुद्धिमान् । इत्यतो वादभेदोऽपि सत्त्वाशयवशानुगः ॥ (40) गुणवादः. 1 गुणाः प्रधानं सांख्यानां त्रयस्सत्त्वादिलक्षणाः । अप्रधानं याज्ञिकानां मतं द्रव्यादिलक्षणम् ॥ शक्त्यादयो गुणाः प्रोक्ता ह्यर्थशास्त्रविशारदैः । शोभादयो गुणास्त्विष्टाः काव्यालङ्कारवेदिभिः ॥ शुक्लादयो गुणाः केचित्तार्किकैः परिभाषिताः । दोषप्रतिद्वन्दितया गुणास्स्युस्सर्वसम्मताः ॥ रज्ज्वादिकं तु संघातं वस्त्वस्ति गुणशब्दितम् । तस्मात्सामान्यतो दृष्टौ वस्तुमात्रं गुणो मतः ॥ तथैव सर्वशब्दो हि वस्तुमात्रे प्रयुज्यते । तथापि पारिभाषिक्या वृत्त्या शास्त्रे व्यवस्थितिः॥

गुणे द्रव्यव्यपेक्षेऽपि द्रव्येऽपि गुणकाङ्क्षिणि । अन्योन्यनिरपेक्षे च गुणद्रव्ये प्रसिद्ध्यतः ॥ सर्वेषां वासना प्रायस्तर्कशास्त्रानुसारिणी । यतः पदार्थसंशुद्ध्यै शास्त्रमेतत्प्रवर्तितम् ॥ अतस्तदनुरोधेन गुणोद्देशोऽत्र गृह्यते । रूपं रसस्ततो गन्धस्स्पर्शस्संख्या ततः परम् ॥ परिमाणं पृथक्त्वं च संयोगस्तदनन्तरः । विभागश्च परत्वं चापरत्वं बुद्धिरेवच ॥ ततस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् । द्रवत्वस्नेहसंस्काराः शब्दोऽदृष्टं गुणा इमे ॥ न गुणानां पृथक्सत्ता व्याहारो द्रव्यसत्तया । इति केचित्तार्किकाश्च प्राहुरित्यपि दृश्यते ॥ स्वरूपमेव संबन्धः स स्वभावनिबन्धनः । इत्याहुर्गुणगुण्यायोस्समवायं द्विषन्ति ये ॥ विशेषसामान्यभेदात् गुणान् द्वेधा विदुर्बुधाः । सामान्यद्रव्यवृत्तित्वे सामान्यगुणेतेष्यते ॥ विशेषद्रव्यवृत्तित्वे तत्त्वं प्राहुः कुमारिलाः । रूपं गन्धो रसः स्पर्शः स्नेहस्सांसिद्धिको द्रवः ॥ बुद्ध्यादिभावनावन्ताश्च शब्दो वैशेषिका गुणाः । संख्यादिरपरत्वान्तः द्रवोऽसांसिद्धिकस्तथा ॥

गुणवादः 173 गुरुत्ववेगौ सामान्यगुणा इति हि तार्किकाः । अथ रूपादिस्तूनां विकल्पोऽप्यवधार्यताम् ॥ 2 चक्षुर्ग्राह्यः गुणो रूपं तत्सप्तविधमुच्यते । तार्किकैरिति सिद्धान्तः सर्वेषामेव विश्रुतः ॥ चित्रं रूपं नोपयन्ति मीमांसकविपश्चितः । अवयव्यतिरेके तु चित्रं रूपं मतं भवेत् ॥ भेदाभेदेऽप्यभेदे वा नोपगन्तव्यमेव तत् । अंशैरेवान्यथासिद्धेः नव्यैरप्येवमिष्यते ॥ मन्त्रशास्त्रे तु वस्तूनां रूपादिस्स्याद्विलक्षणः । विलक्षणो वैद्यशास्त्रे वेदान्तेऽपि विलक्षणः ॥ प्रत्यक्षेणापि बहुधा वैलक्षण्यं समीक्ष्यते । निर्वाहस्तूपदेशास्स्यादिति केचित्प्रचक्षते ॥ चित्रं यद्यतिरिक्तं स्यात् स्पर्शो गन्धः तथा रसः । एवमाद्याः किंनु चित्रा न भवेयुरितीवरे ॥ दुरालभादिवस्तूनां स्पर्शास्सन्ति विलक्षणाः । कस्तूरीप्रभृतीनां तु गन्धास्सन्ति विलक्षणाः ॥ एवं रसादिभेदाश्च सर्वानुभवसाक्षिकाः । व्यवहाराय सामान्यात्तीर्थकृद्भिर्विभज्यते ॥ अतिरिक्तं रूपमाहुः स्निग्धत्वं वर्णलक्षणम् । तथैव पिच्छिलत्वं च, स्याद्गुणान्तरमन्यथा ॥

174 मानमेयरहस्यश्लोकवार्तिके नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः । तेषामाश्रयभेदेन भेदधीरिति शाबराः ॥ 3 रसस्तु रसनाग्राह्यः स च षड्विध इष्यते । मधुरादिविभेदेन स्थूलदृष्ट्या बुधैरिह ॥ रसानां सूक्ष्मभेदस्तु सर्वज्ञस्यापि दुर्ग्रहः । इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ॥ तथापि न तदाख्यातुं सरस्वत्याऽपि शक्यते । इति दण्ड्यादयः प्राहुः विद्वद्रसिकशेखराः ॥ तदाश्रयविकल्पोऽपि विविधः परिदृश्यते । चिन्तनानलसाश्चापि सन्ति दुश्शकनिर्णयाः ॥ 4 घ्राणग्राह्यो गुणोगन्धः स च द्विविध इष्यते । सुगन्धश्चाथ दुर्गन्धः इत्यत्र तु विचार्यते ॥ तत्तदन्यविभेदेन विभागो न हि दुश्शकः । सूक्ष्मभेदाविवक्षा चेत् रूपादा सा प्रसज्यते ॥ सौगतादिप्रबन्धेषु विभागोऽस्ति विलक्षणः । विचाररसिकानां तु केवलं दिक्प्रदर्शनम् ॥ 5 स्पर्शस्त्वगिन्द्रियग्राह्यस्स च त्रिविध इष्यते । अनुष्णाशीतशीतोष्णभेदादिति हि तार्किकैः ॥ वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । पृथिव्यपि तथैवेति सर्वैरभ्युपगम्यते ॥

गुणवादः 175 आयुर्वेदे शीतगुणो मारुतस्संप्रकीर्तितः । तच्चिकित्सानियत्यर्थमिति सर्वार्थसिद्धिकृत् ॥ संयोगभेद एवायं स्पर्श इत्यपरे विदुः । संबन्धवादे संयोगविचारेऽस्त्यस्य विस्तरः ॥ काठिन्यमार्दवाद्यास्स्युः स्पर्शा हि विविधा भुवि। तेषां संयोगरूपत्वे का शीताद्युपकारिता ॥ 6 सर्ववस्तुषु संख्याया व्यवहारो हि दृश्यते । तेन संख्याऽतिरिक्तोऽर्थः सा चैकत्वादिलक्षणा ॥ बहुत्वं नातिरिक्तं स्यात्किंतु त्रित्वादिलक्षणम् । इति प्राभाकराः प्राहुः अथ कौमारिलाः पुनः ॥ वैशेषिकादिवत्संख्यां गुण इत्यभिमन्यते । द्रव्य एवाहि दृश्यन्ते व्यवहारास्तु भूयसा ॥ संख्यायामपि संख्यायाः व्यवहारस्य दर्शनात् । अनवस्था प्रसज्येत यदि संख्याऽतिरिच्यते ॥ गुणादावपि संख्यायाः व्यवहारस्य दर्शनम् । एकार्थसमवायादिसंसर्गादन्यथा भवेत् ॥ अपेक्षा बुद्धिरेव स्यात्संख्या द्वित्वादिलक्षणा । अपेक्षाबुद्धिजन्यं तत् इति प्राञ्चः प्रचक्षते ॥ संघातः पुनरेकत्वमिति संख्यापलापिनः । ऐक्यं भेदाभावरूपमिति भूषणनिर्णयः ॥

स्वरूपभेद एव स्यात् द्वित्वाद्यपिच तन्मते । वस्तुतस्सर्ववस्तूनि संख्या ग्रसितुमर्हति ॥ वनादौ नियतापेक्षाबुद्ध्यभावेऽपि दृश्यते । बहुत्वं, न शतत्वादि, तद्बहुत्वातिरिक्कता ॥ इति श्रीधरसिद्धान्तः तत्र चोदयन् पुनः । सेनेयं महती याति सैषा सेना महत्तरा ॥ इत्यादिव्यवहारेण ह्यतिरेकं निषेधति । त्रित्वाद्येकाधिकरणं बहुत्वमिति शांकरः ॥ 7 एकत्वं त्वसहायत्वं मुख्यत्वं वाऽन्यतां जगुः । भावत्वेनैव वेद्यत्वात् अमुख्येष्वपि दर्शनात् ॥ स्वास्मिन्नप्यैक्यबुद्धेश्च त्रितयं नैक्यमिष्यते । संघातैक्यं तु राज्यादाविव स्यादौपचारिकम् ॥ तस्मादसंघातसंस्थमेकत्वं निरुपाधिकम् । अपेक्षाबुद्धिभेदैः स्यात् द्वित्वादीनां निराक्रिया ॥ इति सर्वार्थसिद्धौ हि वेदान्ताचार्यनिर्णयः । अभूदैक्यभ्रमो भेदादर्शनादिति वेदनात् ॥ ऐक्यं स्वसत्त्वमेवेति निरणैषुः परे बुधाः । स्वरूपादतिरिक्तं तत्पक्षयोरुभयोरपि ॥ यतः स्वरूपे ज्ञातेऽपि द्वित्वव्यामोहदर्शनम् । प्रामाणिकः स्वभावो यः तत्स्वरूपमिति स्थितम् ॥

आभिज्ञाग्राह्यमेकत्वमन्यत् तस्माद्विलक्षणम् । प्रत्यभिज्ञाग्राह्यमिति विपश्चिद्भिर्निरूपितम् ॥ देशकालादिभेदेन भेदो यस्तु प्रसज्यते । तद्विरोधैक्यमेतत्स्यादिति तल्लोकसाक्षिकम् ॥ तेनैव क्षणभङ्गं तं निरुन्धन्ति विपश्चितः । प्रत्यभिज्ञाविचारस्तु क्षणवादे प्रतिष्ठितः ॥ 8 मानव्यवहृतेर्हेतुः परिमाणमितीर्यते । महद्दीर्घमणु ह्रस्वमिति तत्स्याच्चतुर्विधम् ॥ परमाणुरणुः ज्ञेयः त्र्यणुकाद्यं महत् मतम् । द्व्यणुकं स्यादणु ह्रस्वं तदूर्ध्वं दीर्घमिष्यते ॥ विभुद्रव्याणि परममहान्तीति विनिर्णयः । परमाणौ विभौ चापि मानं नास्तीति केचन ॥ परिमाणं तु परितो भाववेष्टनलक्षणम् । तच्चापरिमितख्यातेः विभौ नास्तीति केचन ॥ देशव्याप्तिविशेषः स्यात् परिमाणमितीतरे । राज्यादिषु महत्त्वादिः देशसंबन्ध एवहि ॥ आर्जवेनैकदिग्योगो दीर्घतेत्येवमूह्यताम् । वक्रत्वं चतुरश्रत्वं कुण्डलत्वादिकं तथा ॥ परिमाणं हि परितो मानमित्यभिधीयते । आकाशधातुरेवायं स तुच्छ इति सौगताः ॥ M.R. 23

178 मानमेयरहस्यश्लोकवार्तिके अणूनां स्यात्परिमितिराकाशमिततैव हि । तस्मादवच्छेदभेदान्महदित्यादिधीरिति॥ विभुत्वं तर्हि सर्वेषां स्यादित्यापाद्यते बुधैः । परस्परविरोधे हि न प्रकारान्तरस्थितिः ॥ सर्वप्रकारपरिमित्यभावो विभुतैव हि । सर्वोत्कृष्टपरीमाणं विभुत्वमिति केचन ॥ अवस्थैव परीमाणं प्रकृतेरिति कापिलाः । उपाधिभिः पार्श्वभेदः परमाणोरितींतरे ॥ स प्रदेशा निरंशोऽपि स्वभावादिति चार्हताः । उपाधीनामुपाधिश्चेत् भवेदेवानवस्थितिः ॥ 9 पृथक्त्वं भेद इत्यन्ये वैशिष्ट्यमिति केचन । परे वैधर्म्यमित्याहुः गुणान्तरमितीतरे ॥ अयमस्मात्पृथगिति प्रतीतेः भिन्न इत्यसौ । विलक्षणा प्रतीतिः स्यादित्याहुर्वृद्धतार्किकाः ॥ वैशिष्ट्यस्य पृथक्त्वे तु व्योम्नि शब्दविशेषिते । व्यवहारः पृथक्त्वेनापाद्यते प्रागपेक्षया ॥ वैधर्म्यस्य पृथक्त्वे तु पाकरक्ते घटे पुनः । श्यामाद्घटात्पृथगिति व्यवहारः प्रसज्यते ॥ पृथक्त्वं भेद एवेति नव्यतार्किकनिर्णयः । भेद एव पृथक्त्वं स्यात् भिन्नः पृथगसाविति ॥

गुणवादः 179

सामानाधिकरण्येन व्यपदेशो न विद्यते । पृथक्त्वं लक्षणं भेद इत्यनर्थान्तरं विदुः ॥ भेदोऽप्यसाधारणोऽसौ धर्म एवेति तात्त्विकाः । एकद्वित्रिपृथक्त्वादि संख्यावदिति निर्णयः ॥ वैशेषिकविशेषाणां पृथक्त्वेनान्यथा गतेः । नित्यानां निष्प्रमाणोऽयं विशेष इति वैदिकाः ॥ 10 अप्राप्तिपूर्विका प्राप्तिः संयोगस्सार्वलौकिकः । अबाधिता प्रतीतिश्च संयुक्त इति तद्वति ॥ नान्यथाऽवयवी सिद्धयेत् उत्पत्तिरपि पाकजा । न स्याच्च जगतः सृष्टिः तथा यन्त्रादिकल्पना ॥ आलानादिविनिर्माणं संसर्गश्चेन्द्रियार्थयोः । संबन्धो बीजजलयोः शौचाशौचव्यवस्थितिः ॥ न स्याच्छब्दोत्पत्तिरपि जगत्स्यादपि निश्चलम् । विभोर्न च्छिद्रमणुना नाणूनां विभुना च तत् ॥ यथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत् । न विभज्यते गच्छद्भिः न विहन्ति गतिं च यत् ॥ अस्पर्शात्तथाभूतं विभु वाऽविभु वाऽस्तिहि । कौमारिलास्त्वजमपि संयोगं श्रोत्रशब्दयोः ॥ विभ्वोरिच्छन्ति तत्पक्षे स्याद्विभागोऽपि तादृशः । इत्याक्षेपस्तार्किकाणां नचेष्टापत्तिसंभवः ॥

विरोधस्य परित्यागप्रसङ्गादिति तात्त्विकाः । इति वैशेषिकाः प्राहुरेषा सौगतपद्धतिः ॥ असिद्धः क्षणभङ्गेन संयोगस्स्यात्सहेतुकः । स्याच्चाविरलदेशस्योत्पत्त्या वा सिद्धिरन्यथा ॥ तस्मात्संयोगसंबन्धो विकल्प इति ते विदुः । संबन्धतत्त्वापलापः प्राग्रूपं शून्यसंपदः ॥ नैरन्तर्यं त्वन्तरालाभावरस्संयोग एव चेत् । अभावस्स्यादसन् तुच्छः न कार्यं नापि कारणम् संयोगेऽन्तर्भावयन्ति पदार्थं कर्मलक्षणम् । केचिद्दार्शनिकाः केचित्तार्किकाः भूषणानुगाः ॥ संयोगमेव विषयविषयित्वं विदुः परे । द्रव्ययोरेव संयोगनियमं न प्रचक्षते ॥ अतीतेऽनागते चापि संयोगस्यास्ति संभवः । समकालिकयोरेव संयोग इति नेष्यते ॥ 11 संयोगयुक्तिरेवात्र विभागेऽपि विपर्ययात् । शक्याऽनुसंधातुमिति क्रियते नात्र विस्तरः ॥ संयोगाभावरूपश्चेद्विभक्त इति शेमुषी । भवेद्विज्ञानवादेन सर्वापह्नवसंभ्रमः ॥ विभागो यदि संयोगनाशः किं न विपर्ययः । मिथो विनिगमाभावे तूभयं चेह निर्भयम् ॥

गुणवादः 18 पूर्वसंयोगनाशश्चेदौत्तरो योग उच्यते । विभक्तसंयुक्ताधियां सांकर्यं दुर्निवारणम् ॥ 12 परत्वं चापरत्वं च दैशिकं कालिकं द्वयम् । आद्यं संयुक्तसंयोगभूयस्त्वाल्पत्वधीकृतम् ॥ कालिकं सूर्यचलनभूयस्त्वाल्पत्वधीकृतम् । भूयस्त्वाल्पत्वबुद्धी ते अपेक्षाबुद्धिसंज्ञिते ॥ ताभ्यामेवान्यथासिद्धिं तयोः केचिद्विदुर्बुधाः । बुद्धयधीने हि विज्ञानवादशङ्का प्रसज्यते ॥ विद्यावृत्ताभिजात्यादौ परताऽपरताऽपिच । गुणे गुणमजानाद्भिः अखिलैर्व्यपदिश्यते ॥ द्विपरत्वादयो न स्युः द्विपृथक्त्वादिवत्पुनः । नीलाविमौ द्वावितिवत् द्वाविमौ च पराविति ॥ सदाऽनवाधिकत्वेन प्रतीतेरिति गम्यताम् । द्वित्वैकार्थत्वतश्चापि तेषां स्यादन्यथागतिः ॥ परत्वादिगुणाभावे चाभावो देशकालयोः । तद्विस्तरः कालवादे स्थित इत्युपरम्यते ॥ 13 गुरुत्वमाद्यपतनासमवायितया गुणः । अतीन्द्रियं चाम्बुभूम्योः कल्प्यते किल तार्किकैः नव्यास्तन्नोपगच्छन्ति वस्त्वधोदेश एवहि । गुरुत्वबुद्धिविषयः ततस्स्यात्पतनादिकम् ॥

2 मानमेयरहस्यश्लोकवार्तिके ततश्चांशप्रभेदः स्याद्गुरुत्वं ततएव हि । मारुतः पवते वायुः पोपवीतीति कथ्यते ॥ वह्निः ज्वलति सप्ताचिः जाज्वल्यत इतीर्यते । एवं जले च भूमौ च क्रियासमभिहारतः ॥ पततीति प्रयोगस्स्यात् अंशभेदनिबन्धनः । लघुत्वमतिरिक्तं च किंवा न स्याद्विभागवत् ॥ तिर्यगूर्ध्वाधोगुरूणीत्याहुः केचिद्दिधात्रयम् । तानि वाय्वग्निवारीणि क्रमादिह निदर्शनम् ॥ गुरुत्वातिशयोऽप्येषः यदाक्रमणमुच्यते । सांख्यैस्तमःकार्यभूतं गुरुत्वमभिधीयते ॥ पृथिवीजलवृत्त्येतत्पतनस्य प्रयोजकम् । तेजःपवनयोरूर्ध्वगतिहेतुर्लघुत्वकम् ॥ सत्त्वकार्यं ह्येषितव्यमिति तान्प्रत्युदीर्यते । अदृष्टकारितत्वोक्तिः पृथिव्यादावपीष्यताम् ॥ 14 आद्यस्यन्दनहेतुस्तु द्रवत्वमभिधीयते । सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमथापरम् ॥ सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः । पृथिव्यां घृतजत्वादौ सुवर्णादौ च तेजसि ॥ मसृणत्वं तद्विशिष्टं गुरुत्वं स्यन्दयेज्जलम् । माषादिषु तथा दृष्टेः द्रवत्वं नातिरिच्यते ॥

गुणवादः 183 मसृणत्वं त्ववयव्यूहः संयोगलक्षणः । इति सिद्धान्तयन्त्यन्ये तर्को न प्रतितिष्ठति ॥ 15 चूर्णादिपिण्डीभावस्य हेतुः स्नेहो गुणान्तरम् । जलमात्रे त्वसाविष्टः नान्यथासिद्धिरन्यतः ॥ तैलादौ पार्थिवे तस्य प्रकर्षाद्दाहहेतुता । इति तार्किकसिद्धान्ते प्रत्युक्तिरियमुच्यते ॥ अग्नौ स्नेहविरुद्धं यद्रौक्ष्यं तत्स्याद्गुणान्तरम् । द्रव्यस्वभाववादस्तु सुलभस्सर्वसम्मतः ॥ 16 लौकिकोऽलौकिकश्चेति संस्कारो द्विविधो मतः । वेगादिलक्षणस्त्वाद्यः चोदनालक्षणः परः ॥ वेगः स्थितस्थापकश्च भावनेति त्रिधाऽदिमः । मूर्तमात्रे तु वेगस्स्यात् कर्मजः, वेगजः क्वचित् ॥ स्थितस्थापकसंस्कारः क्षित्यादिषु मतः क्वचित् । भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः ॥ उपेक्षाऽनात्मकस्तस्य निश्चयः कारणं भवेत् । अदृष्टं सहदृष्टं च सकृद्दृष्टमिति त्रिधा ॥ सहकारी स्मृतेर्हेतोस्संस्कारस्य प्रदर्श्यते । इति तार्किकसिद्धान्तं शक्त्याऽपह्नुवते परे ॥ संस्कारः ज्ञानशक्तिः स्यात् कर्मशक्तेर्विलक्षणा । वेगः कर्मविशेषेऽन्तर्भवतीत्यपरे विदुः ॥

184 मानमेयरहस्यश्लोकवार्तिके संस्थानस्य प्रभेदोऽयं स्थितस्थापकतेत्यपि । मीमांसकाः कर्मततिं वेगमाहुर्निरन्तराम् ॥ शरादौ प्रथमं वेगः नोदनेन प्रजायते । ततश्च कर्मसंतानः चरमोत्तरदेशजात् ॥ संयोगाद्वेगनाशस्स्यात् इति वैशेषिका विदुः । कर्मसंततिवद्वेगसंततिं गौतमा विदुः ॥ चोदनागम्यसंस्कारो बहुधा प्रतिपादितः । तद्धेतुर्गुणकर्मेति तच्छक्तिरिति केचन ॥ मीमांसकास्तु संस्कारं तं द्रव्यादिगतं विदुः । नैयायिकाः पुनः प्राहुः तं वै पुरुषसंगतम् ॥ स्वभाववादावकाशः वस्तुवादे प्रसज्यते । आत्मवादेऽदृष्टवादः, विस्पष्टः कुसुमाञ्जलौ ॥ केचित्तु ज्ञानसंस्कारः कर्मसंस्कार इत्यपि । विभजन्ते च तत्राद्यो भावनान्तर्गतो भवेत् ॥ अन्त्यो वीणामृदङ्गादिवाद्यवादनकौशलम् । शिल्पादिकौशलं वा स्यात्तत्सर्वं शक्तिसात्कृतम्। संस्कारो वासना चैव भावनेत्यपि गीयते । पूर्वप्रज्ञा प्रत्यभिज्ञा श्रद्धा चैवास्य विस्तरः ॥ स एव ह्यात्मनो रूपं मुख्यमित्यभिधीयते । तेनाभ्युदयिकं नैश्श्रेयसं चाहुः विपश्चितः ॥

(41) बुद्धिवादः.

1 देहधातुविशेषो वा विकासो वाऽस्य कश्चन । ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥ हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् । एवं चार्वाकसिद्धान्ते बुद्धिवस्तु विविच्यते ॥ बौद्धा विदुश्चित्तचैत्तमान्तरं बुद्धिलक्षणम् । चित्तं ज्ञानं चैत्तमेतत् रागाद्यं बहुधा स्थितम् ॥ तार्किकाः सुखबुद्ध्याद्यानष्टावात्मगुणान्विदुः । निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ॥ तद्भेदात्सुखदुःखाद्याः न विज्ञानात्मका मताः । सर्वं सुखं ज्ञानपूर्वं न ज्ञानं ज्ञानपूर्वकम् ॥ गर्भादौ च प्रबोधादौ प्रथमज्ञानसंभवात् । सांख्याः बुद्धिपरीणामाः बुद्ध्याद्या इति जानते॥ सर्वेऽप्यात्मपरीणामाः इत्याहुः शाबराः पुनः । कौमारिला आर्हताश्च तथौपनिषदा अपि ॥ कैश्चित्तु धर्मभूतस्य ज्ञानस्य परिणामिनः । एते विकारास्तेनात्मा सुखाद्याधार इष्यते ॥ आनुकूल्यप्रातिकूल्योपेक्षावस्थाविभेदतः । बुद्धिरेव सुखं दुःखमुपेक्षेत्यपि शब्द्यते ॥ इच्छाद्वेषादिकं बुद्धेः प्रपञ्चः स्यादिहान्यथा । ईर्ष्याभ्यसूयाकरुणाभयधैर्यबलादयः ॥ M.R.

186 मानमेयरहस्यश्लोकवार्तिके इच्छाद्वेषादिवत्किं वा न भवेयुः पृथग्गु[णाः] केचिदिच्छाप्रभेदं तद्रागद्वेषादिकं विदुः रागोऽनुकूलविषयोपादानेच्छेति निर्णय[ः] प्रतिकूलजिहासा तु द्वेष इत्यभिधीयते तावेव तीव्रभावेन कामक्रोधाविति स्थि[तिः] अशनायापिपासाद्यास्सहस्रं स्युरिहान[न्ताः] तस्माद्द्वेषो विशेषः स्यादिच्छाया इति [...] 2 शृङ्गारादिरसाश्चापि बुद्धिभेदाः प्रकी[र्तिताः] शृङ्गारवीरबीभत्सरौद्राद्याः स्यु रसा [...] बुद्धेरात्मस्वरूपत्वे त्वात्मैव रस उच्य[ते] बुद्धेरात्मगुणत्वे तु गुणा एव रसा म[ताः] बुद्धेश्चित्तस्वरूपत्वे सत्वोद्रेको रसो भ[वेत्] बुद्धेस्स्वयंप्रकाशत्वे स्वयंवेद्यो रसो [...] बुद्धेर्मानसपक्षे तु सोऽपि मानस उ[च्यते] बुद्धिर्यद्यनुमेया स्यात्तदा चानुमितो[...] एवं सिद्धान्तभेदेन रसतत्त्वं विकल्प[ते] बुद्धेः प्रपञ्चः प्रामाण्यवादे सम्यग्वि[विच्यते] सुखदुःखेच्छादयस्तु गुणास्स्युर्बुद्धिरूपि[णः] 3 प्रयत्नोऽपि धियो भेदः पौरुषेयी कृ[तिर्मता] सर्वत्राख्यातवाच्यैषा या त्वार्थी भ[ावना...]

[Header] बुद्धिपादः 187

वाक्यार्थवादे तत्तत्त्वं स्फुटमग्रे भविष्यति । प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥ एवं प्रयत्नत्रैविध्यं तार्किकैः परिकीर्तितम् । तत्र जीवनयोनिर्यः स च कैश्चिन्न कल्प्यते ॥ अदृष्टादेव च प्राणसंचारं ते विदुर्बुधाः । प्रवृत्त्यभाव एव स्यान्निवृत्तिरिति केचन ॥ निवृत्त्यभावः प्रवृत्तिरित्याशङ्का दुरुत्तरा । निवृत्तिर्यत्नभेदस्स्यादिति नव्याः विदुर्बुधाः ॥ 4 आनुकूल्यप्रातिकूल्येवेद्यता सुखदुःखयोः । लक्षणं तत्रानुकूलं सुखं, दुःखं विपर्ययः ॥ प्रायो विदितमेवैतत् कैश्चिद्वेदान्तिभिः पुनः । अनुकूलतया वेद्यं सर्वं सुखमितीष्यते ॥ प्रतिकूलतया वेद्यं सर्वं दुःखमिति स्मृतम् । अतः सर्वे पदार्थास्स्युः सुखदुःखपदाभिधाः ॥ सैषाऽऽनन्दस्य मीमांसा युवा स्यादित्युपक्रमात् अनुकूलतया वेद्यं सर्वमानन्दमब्रवीत् ॥ आनुकूल्यं विषयताविशेषः सर्वगामि तत् । तस्मात्सर्वं सुखं यद्वा तज्ज्ञानं सुखमिष्यते ॥ तद्धेतोरेव तत्त्वे तु किं वस्त्वन्तरचिन्तया । तस्मादविदितावस्थायोगित्वं तस्य नेष्यते ॥

188 मानमेयरहस्यश्लोकवार्तिके साक्षिवेद्यत्वसिद्धान्तः पर्यायादयमेवहि । स्वप्रकाशात्मवादो वा सर्वमेकफलोन्मुखम् ॥ अत्रैव शाक्यभिक्षूक्तं वचनं त्ववधार्यताम् । तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ॥ तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् । विकल्पो यदि बाह्येऽपि किं वक्तव्यमिहान्तरे ॥ (42) प्राकट्यवादः. 1 अथ बुद्धिप्रसङ्गेन प्राकट्यमिह कथ्यते । भाट्टदृष्टः प्रकटता गुणः न तु परैः बुधैः ॥ घटो हि विद्यमानोऽपि कस्यचिद्व्यवहार्यताम् । प्रपद्यते न सर्वेषामथवा नापि सर्वदा ॥ तस्माद्यदा व्यवहरेत् चेतनोऽसौ घटादिना । तदा तद्व्यवहारस्यानुगुणोऽतिशयोऽस्ति यः ॥ स ज्ञानमिति सर्वेऽपि कल्पयन्ति परीक्षकाः । उत्पन्नमेव तत् ज्ञानं प्रत्यक्षमिति केचन ॥ ज्ञानजन्यादतिशयादनुमेयमितीतरे । कीर्त्यतेऽसौ प्रकटता दृष्टता ज्ञाततेति च ॥ सामान्यतस्तु प्राकट्यमिति तैः परिभाष्यते । दृष्टता जायतेऽध्यक्षात्परोक्षात् ज्ञाततेत्यपि ॥

प्राकट्यवादः 18 तत्रापरोक्षं दृष्टत्वं घटो दृष्टो मयेति हि । दृष्टत्वमनुसंधत्ते सर्वोऽप्यर्थस्य चात्मना ॥ नान्यथा ह्यर्थसद्भावो दृष्टस्सन्नोपपद्यते । ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमुपजायते ॥ तथैवानुमिते ह्यर्थे मया ज्ञातोऽग्निरित्यपि । ज्ञातत्वमनुसंधत्ते ज्ञातता नाक्षगोचरा ॥ अथाप्यत्रोपपत्तिं ते सूक्ष्मदृष्ट्या प्रचक्षते । ज्ञातता ह्यात्मनोऽर्थेन संबन्धः प्राप्तिलक्षणः ॥ कर्तृकर्मात्मनोर्मातृमेययोराप्तिरेव सा । सैव प्राकट्यदृष्टत्वज्ञातत्वादिपदोदिता ॥ व्यापारोऽवश्यवक्तव्यः पुमान् येन प्रवर्तितः । अर्थोऽपि प्रापितश्च स्यात्प्रमेयाधिगतिर्हि सा ॥ मानसाध्यक्षवेद्या सा परोक्षो विषयो यदि । कल्पयेदेव विज्ञानमन्यथाऽनुपपत्तितः ॥ तं पदार्थान्तरं प्राहुः प्राकट्यमिति पण्डिताः । एवं प्राकट्यतत्त्वार्थो न्यायरत्नाकरे स्फुटः ॥ २ संविदं स्वप्रकाशां तु मन्यन्ते ये च तन्मते । स्वोत्पत्तिसमये संवित् वेत्तारं वेद्यमेव च ॥ स्वस्वरूपं भासयति न त्वेषां तु परस्परम् । संबन्धं स्वस्वरूपस्यानिष्पन्नत्वादसत्त्वतः ॥

190 मानमेयरहस्यश्लोकवार्तिके संविदन्तरनिष्पत्तिसमये पूर्वसंविदः । नष्टत्वादुक्तसंबन्धो न तद्गोचरतामियात् ॥ किंतु संवेत्तृधर्मोऽसौ प्राप्त्याख्यः स्वात्मसाक्षिकः। निष्पन्नायां तु संवित्तौ स संबन्धोऽवभासते ॥ ततएवच संवित्तिवस्तुकल्पनसंभवात् । संवित्तैः स्वप्रकाशत्वकल्पना गुरुताऽऽहृता ॥ 3 प्राकट्यं स्यात् ज्ञानधर्मः इत्याहुः किल सौगताः । आत्मधर्म इति प्राहुः प्राभाकरमतानुगाः॥ प्राकट्यं नाम सर्वेषु विषयेषु स्थितो गुणः । इति कौमारिलाः प्राहुः हेतुः प्रागेव विस्तृतः ॥ ज्ञानार्थयोश्च संबन्धः यस्स्याद्विषयताऽऽत्मकः । स ज्ञानरूप एवेति नैयायिकमुखा विदुः ॥ अतिरिक्तं पदार्थं तं नव्यनैयायिका विदुः । विषयत्वविकल्पस्तु संबन्धेऽत्र प्रपञ्च्यते ॥ सर्वासां च प्रतीतीनां बुद्धिसंबन्धमात्रतः । उपपत्तेः प्रकाशोऽन्यैः तदन्यो नाभ्युपेयते ॥ यदि कल्प्येत विषये प्राकट्यं व्यवहारतः । तद्धेतुत्वेन कल्प्या धीः तत्फलार्थं प्रकल्प्यताम् ॥ यदि तत्रैव तस्यैव प्राकट्यं ते धिया भवेत् । तथा ज्ञानादयोऽपि स्युः किमन्तर्गडुनाऽमुना ॥