मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 228, कुल 672 में से
संदर्भ में पढ़ें186 मानमेयरहस्यश्लोकवार्तिके इच्छाद्वेषादिवत्किं वा न भवेयुः पृथग्गु[णाः] केचिदिच्छाप्रभेदं तद्रागद्वेषादिकं विदुः रागोऽनुकूलविषयोपादानेच्छेति निर्णय[ः] प्रतिकूलजिहासा तु द्वेष इत्यभिधीयते तावेव तीव्रभावेन कामक्रोधाविति स्थि[तिः] अशनायापिपासाद्यास्सहस्रं स्युरिहान[न्ताः] तस्माद्द्वेषो विशेषः स्यादिच्छाया इति [...] 2 शृङ्गारादिरसाश्चापि बुद्धिभेदाः प्रकी[र्तिताः] शृङ्गारवीरबीभत्सरौद्राद्याः स्यु रसा [...] बुद्धेरात्मस्वरूपत्वे त्वात्मैव रस उच्य[ते] बुद्धेरात्मगुणत्वे तु गुणा एव रसा म[ताः] बुद्धेश्चित्तस्वरूपत्वे सत्वोद्रेको रसो भ[वेत्] बुद्धेस्स्वयंप्रकाशत्वे स्वयंवेद्यो रसो [...] बुद्धेर्मानसपक्षे तु सोऽपि मानस उ[च्यते] बुद्धिर्यद्यनुमेया स्यात्तदा चानुमितो[...] एवं सिद्धान्तभेदेन रसतत्त्वं विकल्प[ते] बुद्धेः प्रपञ्चः प्रामाण्यवादे सम्यग्वि[विच्यते] सुखदुःखेच्छादयस्तु गुणास्स्युर्बुद्धिरूपि[णः] 3 प्रयत्नोऽपि धियो भेदः पौरुषेयी कृ[तिर्मता] सर्वत्राख्यातवाच्यैषा या त्वार्थी भ[ावना...]