भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 227, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 227

(41) बुद्धिवादः.

1 देहधातुविशेषो वा विकासो वाऽस्य कश्चन । ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥ हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् । एवं चार्वाकसिद्धान्ते बुद्धिवस्तु विविच्यते ॥ बौद्धा विदुश्चित्तचैत्तमान्तरं बुद्धिलक्षणम् । चित्तं ज्ञानं चैत्तमेतत् रागाद्यं बहुधा स्थितम् ॥ तार्किकाः सुखबुद्ध्याद्यानष्टावात्मगुणान्विदुः । निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ॥ तद्भेदात्सुखदुःखाद्याः न विज्ञानात्मका मताः । सर्वं सुखं ज्ञानपूर्वं न ज्ञानं ज्ञानपूर्वकम् ॥ गर्भादौ च प्रबोधादौ प्रथमज्ञानसंभवात् । सांख्याः बुद्धिपरीणामाः बुद्ध्याद्या इति जानते॥ सर्वेऽप्यात्मपरीणामाः इत्याहुः शाबराः पुनः । कौमारिला आर्हताश्च तथौपनिषदा अपि ॥ कैश्चित्तु धर्मभूतस्य ज्ञानस्य परिणामिनः । एते विकारास्तेनात्मा सुखाद्याधार इष्यते ॥ आनुकूल्यप्रातिकूल्योपेक्षावस्थाविभेदतः । बुद्धिरेव सुखं दुःखमुपेक्षेत्यपि शब्द्यते ॥ इच्छाद्वेषादिकं बुद्धेः प्रपञ्चः स्यादिहान्यथा । ईर्ष्याभ्यसूयाकरुणाभयधैर्यबलादयः ॥ M.R.