भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

(41) बुद्धिवादः.

1 देहधातुविशेषो वा विकासो वाऽस्य कश्चन । ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥ हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् । एवं चार्वाकसिद्धान्ते बुद्धिवस्तु विविच्यते ॥ बौद्धा विदुश्चित्तचैत्तमान्तरं बुद्धिलक्षणम् । चित्तं ज्ञानं चैत्तमेतत् रागाद्यं बहुधा स्थितम् ॥ तार्किकाः सुखबुद्ध्याद्यानष्टावात्मगुणान्विदुः । निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ॥ तद्भेदात्सुखदुःखाद्याः न विज्ञानात्मका मताः । सर्वं सुखं ज्ञानपूर्वं न ज्ञानं ज्ञानपूर्वकम् ॥ गर्भादौ च प्रबोधादौ प्रथमज्ञानसंभवात् । सांख्याः बुद्धिपरीणामाः बुद्ध्याद्या इति जानते॥ सर्वेऽप्यात्मपरीणामाः इत्याहुः शाबराः पुनः । कौमारिला आर्हताश्च तथौपनिषदा अपि ॥ कैश्चित्तु धर्मभूतस्य ज्ञानस्य परिणामिनः । एते विकारास्तेनात्मा सुखाद्याधार इष्यते ॥ आनुकूल्यप्रातिकूल्योपेक्षावस्थाविभेदतः । बुद्धिरेव सुखं दुःखमुपेक्षेत्यपि शब्द्यते ॥ इच्छाद्वेषादिकं बुद्धेः प्रपञ्चः स्यादिहान्यथा । ईर्ष्याभ्यसूयाकरुणाभयधैर्यबलादयः ॥ M.R.

186 मानमेयरहस्यश्लोकवार्तिके इच्छाद्वेषादिवत्किं वा न भवेयुः पृथग्गु[णाः] केचिदिच्छाप्रभेदं तद्रागद्वेषादिकं विदुः रागोऽनुकूलविषयोपादानेच्छेति निर्णय[ः] प्रतिकूलजिहासा तु द्वेष इत्यभिधीयते तावेव तीव्रभावेन कामक्रोधाविति स्थि[तिः] अशनायापिपासाद्यास्सहस्रं स्युरिहान[न्ताः] तस्माद्द्वेषो विशेषः स्यादिच्छाया इति [...] 2 शृङ्गारादिरसाश्चापि बुद्धिभेदाः प्रकी[र्तिताः] शृङ्गारवीरबीभत्सरौद्राद्याः स्यु रसा [...] बुद्धेरात्मस्वरूपत्वे त्वात्मैव रस उच्य[ते] बुद्धेरात्मगुणत्वे तु गुणा एव रसा म[ताः] बुद्धेश्चित्तस्वरूपत्वे सत्वोद्रेको रसो भ[वेत्] बुद्धेस्स्वयंप्रकाशत्वे स्वयंवेद्यो रसो [...] बुद्धेर्मानसपक्षे तु सोऽपि मानस उ[च्यते] बुद्धिर्यद्यनुमेया स्यात्तदा चानुमितो[...] एवं सिद्धान्तभेदेन रसतत्त्वं विकल्प[ते] बुद्धेः प्रपञ्चः प्रामाण्यवादे सम्यग्वि[विच्यते] सुखदुःखेच्छादयस्तु गुणास्स्युर्बुद्धिरूपि[णः] 3 प्रयत्नोऽपि धियो भेदः पौरुषेयी कृ[तिर्मता] सर्वत्राख्यातवाच्यैषा या त्वार्थी भ[ावना...]

[Header] बुद्धिपादः 187

वाक्यार्थवादे तत्तत्त्वं स्फुटमग्रे भविष्यति । प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥ एवं प्रयत्नत्रैविध्यं तार्किकैः परिकीर्तितम् । तत्र जीवनयोनिर्यः स च कैश्चिन्न कल्प्यते ॥ अदृष्टादेव च प्राणसंचारं ते विदुर्बुधाः । प्रवृत्त्यभाव एव स्यान्निवृत्तिरिति केचन ॥ निवृत्त्यभावः प्रवृत्तिरित्याशङ्का दुरुत्तरा । निवृत्तिर्यत्नभेदस्स्यादिति नव्याः विदुर्बुधाः ॥ 4 आनुकूल्यप्रातिकूल्येवेद्यता सुखदुःखयोः । लक्षणं तत्रानुकूलं सुखं, दुःखं विपर्ययः ॥ प्रायो विदितमेवैतत् कैश्चिद्वेदान्तिभिः पुनः । अनुकूलतया वेद्यं सर्वं सुखमितीष्यते ॥ प्रतिकूलतया वेद्यं सर्वं दुःखमिति स्मृतम् । अतः सर्वे पदार्थास्स्युः सुखदुःखपदाभिधाः ॥ सैषाऽऽनन्दस्य मीमांसा युवा स्यादित्युपक्रमात् अनुकूलतया वेद्यं सर्वमानन्दमब्रवीत् ॥ आनुकूल्यं विषयताविशेषः सर्वगामि तत् । तस्मात्सर्वं सुखं यद्वा तज्ज्ञानं सुखमिष्यते ॥ तद्धेतोरेव तत्त्वे तु किं वस्त्वन्तरचिन्तया । तस्मादविदितावस्थायोगित्वं तस्य नेष्यते ॥

188 मानमेयरहस्यश्लोकवार्तिके साक्षिवेद्यत्वसिद्धान्तः पर्यायादयमेवहि । स्वप्रकाशात्मवादो वा सर्वमेकफलोन्मुखम् ॥ अत्रैव शाक्यभिक्षूक्तं वचनं त्ववधार्यताम् । तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ॥ तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् । विकल्पो यदि बाह्येऽपि किं वक्तव्यमिहान्तरे ॥ (42) प्राकट्यवादः. 1 अथ बुद्धिप्रसङ्गेन प्राकट्यमिह कथ्यते । भाट्टदृष्टः प्रकटता गुणः न तु परैः बुधैः ॥ घटो हि विद्यमानोऽपि कस्यचिद्व्यवहार्यताम् । प्रपद्यते न सर्वेषामथवा नापि सर्वदा ॥ तस्माद्यदा व्यवहरेत् चेतनोऽसौ घटादिना । तदा तद्व्यवहारस्यानुगुणोऽतिशयोऽस्ति यः ॥ स ज्ञानमिति सर्वेऽपि कल्पयन्ति परीक्षकाः । उत्पन्नमेव तत् ज्ञानं प्रत्यक्षमिति केचन ॥ ज्ञानजन्यादतिशयादनुमेयमितीतरे । कीर्त्यतेऽसौ प्रकटता दृष्टता ज्ञाततेति च ॥ सामान्यतस्तु प्राकट्यमिति तैः परिभाष्यते । दृष्टता जायतेऽध्यक्षात्परोक्षात् ज्ञाततेत्यपि ॥

प्राकट्यवादः 18 तत्रापरोक्षं दृष्टत्वं घटो दृष्टो मयेति हि । दृष्टत्वमनुसंधत्ते सर्वोऽप्यर्थस्य चात्मना ॥ नान्यथा ह्यर्थसद्भावो दृष्टस्सन्नोपपद्यते । ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमुपजायते ॥ तथैवानुमिते ह्यर्थे मया ज्ञातोऽग्निरित्यपि । ज्ञातत्वमनुसंधत्ते ज्ञातता नाक्षगोचरा ॥ अथाप्यत्रोपपत्तिं ते सूक्ष्मदृष्ट्या प्रचक्षते । ज्ञातता ह्यात्मनोऽर्थेन संबन्धः प्राप्तिलक्षणः ॥ कर्तृकर्मात्मनोर्मातृमेययोराप्तिरेव सा । सैव प्राकट्यदृष्टत्वज्ञातत्वादिपदोदिता ॥ व्यापारोऽवश्यवक्तव्यः पुमान् येन प्रवर्तितः । अर्थोऽपि प्रापितश्च स्यात्प्रमेयाधिगतिर्हि सा ॥ मानसाध्यक्षवेद्या सा परोक्षो विषयो यदि । कल्पयेदेव विज्ञानमन्यथाऽनुपपत्तितः ॥ तं पदार्थान्तरं प्राहुः प्राकट्यमिति पण्डिताः । एवं प्राकट्यतत्त्वार्थो न्यायरत्नाकरे स्फुटः ॥ २ संविदं स्वप्रकाशां तु मन्यन्ते ये च तन्मते । स्वोत्पत्तिसमये संवित् वेत्तारं वेद्यमेव च ॥ स्वस्वरूपं भासयति न त्वेषां तु परस्परम् । संबन्धं स्वस्वरूपस्यानिष्पन्नत्वादसत्त्वतः ॥

190 मानमेयरहस्यश्लोकवार्तिके संविदन्तरनिष्पत्तिसमये पूर्वसंविदः । नष्टत्वादुक्तसंबन्धो न तद्गोचरतामियात् ॥ किंतु संवेत्तृधर्मोऽसौ प्राप्त्याख्यः स्वात्मसाक्षिकः। निष्पन्नायां तु संवित्तौ स संबन्धोऽवभासते ॥ ततएवच संवित्तिवस्तुकल्पनसंभवात् । संवित्तैः स्वप्रकाशत्वकल्पना गुरुताऽऽहृता ॥ 3 प्राकट्यं स्यात् ज्ञानधर्मः इत्याहुः किल सौगताः । आत्मधर्म इति प्राहुः प्राभाकरमतानुगाः॥ प्राकट्यं नाम सर्वेषु विषयेषु स्थितो गुणः । इति कौमारिलाः प्राहुः हेतुः प्रागेव विस्तृतः ॥ ज्ञानार्थयोश्च संबन्धः यस्स्याद्विषयताऽऽत्मकः । स ज्ञानरूप एवेति नैयायिकमुखा विदुः ॥ अतिरिक्तं पदार्थं तं नव्यनैयायिका विदुः । विषयत्वविकल्पस्तु संबन्धेऽत्र प्रपञ्च्यते ॥ सर्वासां च प्रतीतीनां बुद्धिसंबन्धमात्रतः । उपपत्तेः प्रकाशोऽन्यैः तदन्यो नाभ्युपेयते ॥ यदि कल्प्येत विषये प्राकट्यं व्यवहारतः । तद्धेतुत्वेन कल्प्या धीः तत्फलार्थं प्रकल्प्यताम् ॥ यदि तत्रैव तस्यैव प्राकट्यं ते धिया भवेत् । तथा ज्ञानादयोऽपि स्युः किमन्तर्गडुनाऽमुना ॥

प्राकट्यं प्रकटं वा स्यादन्यतः स्वत एव वा । आयेऽनवस्थितिशेषे बुद्धिरैव तथा न किम् ॥ स्वदते मोदत इति यथा भाति घटस्तथा । शब्दानां नियतिस्सेयं नार्थधर्मप्रसाधकम् ॥ इष्टता द्विषता चैव कृतता च प्रनष्टता । तथा संस्कृतता च स्यात् अधिका ज्ञातता यथा। प्राकट्यं हि गुणः प्रोक्तस्स रूपादी कथं भवेत् । गतिक्रियायाः कर्मत्वं प्राप्त्या चेत्फलरूपया ॥ प्राप्तिक्रियायाः कर्मत्वं किमन्यदिह कथ्यते । तस्मात्प्राकट्यसिद्धान्तः मतिजाड्यनिबन्धनः ॥ ज्ञानस्य द्रव्यरूपत्वे स स्यात्संयोगलक्षणः । दृग्दृश्यसंगतिं चान्ये दुर्निरूपां विदुर्बुधाः ॥ स योगाचारमार्गः स्यात्तादात्म्ये पर्यवस्यति । तद्बाधूननायैव प्राकट्यपरिरक्षणम् ॥ (43) शब्दवादः. 1 वैभाषिकास्तु शब्दादीन् पञ्चधाऽणून् प्रचक्षते । शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥ अणवस्सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः । छायातपतमश्शब्दभावेन परिणामिनः ॥

192 मानमेयरहस्यश्लोकवार्तिके स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाद्या इति तन्मतम् ॥ 2 निरोधोत्पत्तिधर्मं च शब्दं वस्त्वन्तरं परे । अनाश्रितं महाभूतसंक्षोभजनितं विदुः ॥ 3 शब्दस्यावयवास्सूक्ष्माः सन्ति केचन पुद्गलाः । तैर्वर्णो जायते तैश्च शब्दोऽन्योऽवयवी भवेत् ॥ स च क्रियाश्रयः स्पर्शगुणवान् त्वग्गोचरः । महत्त्वाणुत्वगुणवानुद्भवाभिभवाश्रयः ॥ स्वभूमेस्सोऽभिनिष्क्रम्य तिर्यगूर्ध्वमधोऽपि च । पुंसां श्रुत्यन्तरं चोपसर्पतीत्यार्हतं मतम् ॥ 4 अजस्रमूर्तिर्यश्शब्दः सूक्ष्मत्वान्नोपलभ्यते । व्यजनाद्वायुरिव सः स्वनिमित्तात्प्रतीयते ॥ स एव कैश्चित्कुशलैराकाश इति पठ्यते । इत्याहुरपरे शब्दसाक्षात्कारविचक्षणाः ॥ 5 अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन स्फोटं तं मनुते हरिः ॥ शब्दब्रह्म यदेकं यच्चैतन्यं प्राणिनां तथा । इदं त्रिभुवनं सर्वं यत्परिणाम इत्यपि ॥ हलायुधोऽब्रवीदेवं तथाऽऽलंकारिका विदुः । देवतां कांचिदुद्दिश्य भक्त्या यो वक्ति किंचन ॥

शब्दवादः 193 तस्य दोषं न यत्किंचिन्मनसाऽपि विचिन्तयेत् । इति चोक्तं परमतभङ्गे भागे चतुर्दशे ॥ नादैराहितबीजायां अन्त्येन ध्वनिना सह। आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ अप्रच्युतस्वभावस्य तत्त्वादेकस्य वस्तुनः । स विवर्तो विभक्तान्यरूपोपग्राहिता तु या ॥ भेदानुकारेणासत्या स्वाप्नार्थप्रतिभासवत् । तद्वाक्यपदवर्णादिभेदस्सर्वो विकल्पना ॥ 6 अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता। वर्णाः पदानि वाक्यानि व्यक्तयो व्यक्तिहेतवः ॥ 7 कौष्ठ्यो बहिर्निस्सरति समीरण इति स्फुटम् । स गच्छन् सर्वतोदिक्कः स्तिमितानिलनोदनम् ॥ करोति कर्णाकाशे च प्रयाति श्रुतियोग्यताम् । स मूर्तः प्रसरन् मूर्तैः अपरैः प्रतिहन्यते ॥ कुड्यादिभिरतो नास्य श्रुतिर्व्यवहितात्मनः । इति वायुं तत्क्रियां वा शब्दं शिक्षाविदो विदुः ॥ वायो त्वमेव प्रत्यक्षं ब्रह्मासीति नमोऽस्तु ते । इति शान्तिं तैत्तिरीयाः पठन्त्युपनिषन्मुखे ॥ 8 गन्धादिसहसंस्थानः पञ्चभूतेष्ववस्थितः । शब्दोऽभिव्यक्तिधर्मेति प्रसिद्धं कापिलं मतम् ॥ M.R. 25

194 मानमेयरहस्यश्लोकवार्तिके 9 आकाशस्य गुणश्शब्दो यस्संयोगविभागजः । वर्णध्वन्यात्मकः गत्वगान्धारत्वादिजातिमान् ॥ उत्पन्नः को विनष्टः कः इति बुद्धेरनित्यता । तदेवौषधमित्यादितुल्यस्सोऽयमिति भ्रमः ॥ क्षणिकस्स्वसजातीयशब्दमारभते पुनः । तारङ्गान्मोकुलाद्वाऽपि न्यायादिति हि तार्किकाः ॥ 10 भगवानुपवर्षोऽपि मतान्येतान्यधिक्षिपन् । गौरित्यत्राथ कश्शब्दः इत्याद्याहेति शाबरम् ॥ वर्णात्मकास्तु ये शब्दा नित्यास्सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥ वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते । पदे न वर्णा भिद्यन्ते वर्णेष्ववयवा न च ॥ वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन । ह्रस्वोदात्तद्रुतत्वादिधर्माः व्यञ्जकसंस्थिताः ॥ अध्यस्ता अपि वर्णेषु प्रतीत्यौपयिका मताः । व्यञ्जकस्तु ध्वनिस्सोऽयं वायुर्वा तद्गुणोऽस्तु वा ॥ अभिव्यञ्जकनानात्वात् वर्णो नानेव लक्ष्यते । नेत्रवृत्तिविभेदेन वर्णस्तैमिरिकैरिव ॥ यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये । ध्वनिधर्मोऽपि दीर्घादिः वर्णानामुपकारकः ॥

शब्दवादः 195 यथा सर्वगता जातिः पिण्डदेशैव गृह्यते । नच कात्स्न्र्यगृहीताऽपि पिण्डेऽन्यत्र न दृश्यते ॥ तथा सर्वगतश्शब्दः नाददेशेषु गृह्यते । कात्स्न्र्येन च गृहीतोऽपि पुनरन्यत्र गृह्यते ॥ पिण्डोऽभिव्यञ्जको जातेः वर्णस्य व्यञ्जको ध्वनिः। आश्रितानाश्रितत्वादिविशेषः क्वोपयुज्यते ॥ प्रतिभावाक्यवाक्यार्थवादाद्यनवकाशिनी । शब्दस्य नित्यता वर्णलक्षणस्यैव साध्यते ॥ 11 व्यवहारानादितायै सैषा कूटस्थनित्यता । प्रवाहतस्तु नित्यत्वं क्रमस्याभ्युपगम्यते ॥ क्रमस्य कालरूपत्वात् कालो नित्यो विभुस्ततः । क्रमोऽपि कूटस्थनित्य इति केचिद्विदुर्बुधाः ॥ शब्दत्वं परसामान्यमपरं स्वरतादिकम् । गत्वादिकं न सामान्यं एकव्यक्त्याख्यदोषतः॥ वर्णा एवावगम्यन्ते न पूर्वापरवस्तुनी । वर्णकारणभूता येऽवयवाः पूर्वशब्दिताः ॥ गत्वमत्वं चावयवी गोशब्दत्वं गणोऽपि वा । स्फोटश्चेति विकल्पाश्चापरशब्दविवक्षिताः ॥ प्रयोजनं तु यज्जात्या तद्वर्णादेव जायते । व्यक्तिलभ्यं तु नादेभ्यः इति गत्वादिधीः वृथा ॥

196 मानमेयरहस्यश्लोकवार्तिके त्रिगुणः पौद्गलो वाऽयं आकाशस्याथवा गुणः । वर्णादन्योऽथ नादात्मा वायुरूपोऽर्थवाचकः ॥ पदवाक्यात्मकः स्फोटः सारूप्यान्यनिवर्तने । एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ॥ प्रत्यभिज्ञा यदा शब्दे जागर्ति निरवग्रहा । अनित्यत्वानुमानानि सैव सर्वाणि बाधते ॥ नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते । तदुपश्लेषतस्तस्य बोधं केचित्प्रचक्षते ॥ नैव वा ग्रहणं तेषां शब्दे बुद्धिस्तु तद्वशात् । संस्कारानुकृतेः, यद्वत् महत्त्वाद्यवगम्यते ॥ 12 एवं सिद्धान्तयन्त्यत्र कुमारिलविपश्चितः । अपिचैते स्फोटवादे नैयायिकमतेऽपि नः ॥ व्यक्त्याकृतिकृतो भेदो यद्यप्येकान्ततो भवेत् । वर्णेषु, जैमिनेः पक्षः तथाऽपि न विरोत्स्यते ॥ नित्यत्वयत्नस्सर्वोऽपि गत्वादिषु भविष्यति । गकारादिवचस्त्वेतत्तेष्वेव न विरोत्स्यते ॥ इति स्पष्टं यतः प्राहुः युक्तिज्ञास्सरलाशयाः । अतस्तार्किकसिद्धान्तो नानिष्ट इति गम्यते ॥ कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिरिति युक्तिर्गरीयसी ॥

शब्दवादः 197 शब्दनित्यत्ववादे हि विस्तरेण निरूपिता । तस्मात्सर्वेऽपि सिद्धान्ताः विश्रान्ताः किल युक्तिषु। 13 इति कौमारिलमतमथ प्राभाकराः पुनः । नभोगुणं ध्वनिं शब्दं वर्णं चापि प्रचक्षते ॥ 14 भर्तृमित्रस्तु वदति श्रोत्रं नाम न किंचन । ध्वनिजन्यो हि संस्कारः श्रोत्रमित्युच्यते त्विति॥ ध्वनिर्विषयसंस्कारं श्रोत्रसंस्कारमेव वा । करोति न तु संस्कारमात्रं श्रोत्रमितीतरे ॥ 15 श्रोत्रमप्राप्यकारीति प्राहुस्तथागताः पुनः । श्रोत्रवृत्तिश्शब्ददेशं गच्छतीति हि कापिलाः ॥ शब्दस्स्वभूमेर्निष्क्रम्य सर्पतीत्यार्हतं मतम् । स्वस्मिन् गृह्णाति संभूतमिति तार्किकपद्धतिः ॥ ध्वनयश्श्रवणग्राह्याः वर्णाः व्यज्यन्त इत्यपि । वर्णनित्यत्वसिद्धान्ते प्राहुर्मीमांसका बुधाः ॥ 16 वेदानित्यत्वभीत्यैव स्थाप्यते वर्णनित्यता । शब्दनित्यत्ववादस्थं वार्तिकं त्ववधार्यताम् ॥ स्थिते कूटस्थनित्यत्वे व्यवहारस्य नित्यता । कूटस्थेन विनैतेन न तस्यालम्बनं भवेत् ॥ प्रसिद्धत्वाद्दृते सर्वो व्यवहारो हि नेष्यते । तस्माद्वेदप्रमाणार्थं नित्यत्वमिह साध्यते ॥

198 मानमेयरहस्यश्लोकवार्तिके नित्येषु सत्सु वर्णेषु व्यवहारात्क्रमोदयः । घटादिरचना यद्वत् नित्येषु परमाणुषु ॥ अणुकल्पाश्च वर्णांशाः न सन्त्यनुपलम्भनात् । द्रष्टव्यो विस्तरस्तत्र, चेत्कुतूहलशीलता ॥ तस्माच्छ्रोत्रग्राह्यतैव शब्दलक्षणमिष्यते । अर्थप्रत्यायकत्वं तु स्फोटवादिभिरुच्यते ॥ तत्रेतरैषां सिद्धान्तस्वान्तमित्थं विचिन्त्यते । वर्णानामेव वेदत्वे वाङ्मात्रं नित्यमापतेत् ॥ नहि वर्णाः स्वयं वेदाः वाक्यं तद्व्यपदेशभाक् । अस्वातन्त्र्यं तु संदर्भे स्यात्प्रवाहनिबन्धनम् ॥ तत्र प्रवाहनित्यत्वं संदर्भेऽपि समत्यजन् । तार्किका हीश्वरत्वं स्यात्तदानीं पुष्कलं त्विति ॥ (44) ध्वनिवादः. 1 एवं वर्णविकल्पोऽत्र संगृहीतः प्रमाणतः । अथ ध्वनिविकल्पोऽपि विद्वद्भिः श्रूयतां मुदे ॥ शब्दत्वं नाम सामान्यं ध्वनिमाहुः परे बुधाः । ध्वनिborder/नादश्च -> ध्वनिborder/नादश्च -> ध्वनिborder/नादश्च -> ध्वनिborder: ध्वनिborder -> ध्वनिborder -> ध्वनिनादश्च घोषश्चेत्यनर्थान्तरवादिनः ॥ अतएव हि संस्थासु दूरस्थैः श्रूयते ध्वनिः । न व्यञ्जनं न स्वरो वा न पदं वाक्यमेववा ॥

शब्दाः स्युस्तन्मते नूनं स्वरव्यञ्जनलक्षणाः । ततो विशेषसामान्यभा क्स्स्यात् ध्वनिशब्दयोः ॥ २ शब्दत्वव्याप्यसामान्यं ध्वनित्वं कतिचिद्विदुः । मतमेतत्तु बहुशो भवेत्तार्किकसम्मतम् ॥ ३ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । शाब्दिकैः व्यक्तयस्तास्तु ध्वनित्वेन प्रकल्पिताः ॥ तन्मते ध्वनयो ज्ञेयाः स्वरव्यञ्जनलक्षणाः । ४ अनित्यस्फोटपक्षे तु ध्वनितत्त्वमिदं मतम् ॥ यः शब्दः प्रथमं जातः स स्फोट इति कीर्त्यते । तद्रूपप्रतिबिम्बावग्राहिणः सर्वतोमुखाः ॥ मन्दप्रदीपप्रकाशरूपभानक्रमेण ये । भासमानाः श्रुतिं वाणीं ध्वनयो विभजन्ति ते ॥ ५ स्फोटानित्यत्वपक्षे तु यस्संयोगविभागजः । स ध्वनिः तदभिव्यङ्ग्यः स्फोटो वर्णविभागशः ॥ ६ आदौ कारणतो जातः शब्दः कैश्चित् ध्वनिः स्मृतः। नादो द्वितीयादिशब्दः तद्व्यङ्ग्यः स्फोट इष्यते ॥ ७ तथाऽऽकाशगुणश्शब्दः ध्वनिस्स्यात् गौरवे मते । वर्णास्ते तदभिव्यङ्ग्याः तेऽप्याकाशगुणा मताः ॥ ८ वायुसंयोगादिरेव संयुक्तादिस्स एव वा । ध्वनिरित्याहुरपरे वायव्यध्वनिवादिनः ॥

200 मानमेयरहस्यश्लोकवार्तिके यद्वा वायुगुणश्शब्दो ध्वनिनादपदाभिधः । पूर्वकल्पेऽतीन्द्रियस्स्यात् द्वितीये श्रुतिगोचरः ॥ 9 ध्वनिनादश्च घोषश्च वीणाघण्टादिभेदतः । प्रायेण व्यवहारेण विभिन्ना लोकविश्रुताः ॥ एवं ध्वनिविकल्पस्तु बहुधा प्रसमीक्ष्यते । शब्दनित्यत्वाधिकृतौ वाक्यपद्यां च विस्तृतः ॥ (45) अदृष्टवादः. 1 धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् । गङ्गास्नानादियागादेः व्यापारस्स तु कीर्तितः ॥ नाश्यस्त्वसौ कर्मनाशास्पर्शसंकीर्तनादिना । अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ॥ प्रायश्चित्तादिना नाश्यः जीववृत्ती त्विमौ गुणौ । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥ स्वगुणाः परमाणूनां विशेषाः पाकजा मताः । इमौ तु तत्त्वविज्ञानादपि क्वापि विनश्यतः ॥ अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः । 2 शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥ तस्मात्फले प्रवृत्तस्य यागादेश्शक्तिमात्रकम् । उत्पत्तौ वाऽपि पश्चादेः अपूर्वं न ततः पृथक् ॥

अदृष्टवादः 20 3 अपूर्व एव वाक्यार्थः नियोगः धर्मशब्दितः । इति प्राभाकराः प्राहुः ते वाच्यापूर्ववादिनः ॥ 4 कर्मजन्यो हि संस्कारः पुंसो बुद्ध्यादिवद्गुणः । तस्य चाफलसंयोगादवस्थितिरुपेयते ॥ स यागदानहोमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥ इति कौमारिलाः प्राहुः ते कल्प्यापूर्ववादिनः । 5 सांख्याः पुनः प्राहुरन्तःकरणस्याचिदात्मनः ॥ बुद्धेः वृत्तिविशेषं तत् अदृष्टमिति कल्पितम् । 6 धर्मः स्यात् शाक्यभिक्षूणामदृष्टा चित्तवासना ॥ 7 धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् । विभुरूपं तत्तु तत्त्वान्तरं चेत्यपि कीर्त्यते ॥ 8 आराध्यदेवताप्रीतिरिति वैयासिकं मतम् । स च सर्वेश्वरस्यैव सङ्कल्प इति निर्णयः ॥ 9 विस्तरस्तस्य च पुनर्विवेकाय विलिख्यते । शास्त्रैकसमधिगम्यं श्रेयसस्साधनं तु यत् ॥ स धर्म इति जैमिन्याचार्यैर्लक्षणमुच्यते । तस्यैव शाबरो भाट्टो गौरवो निर्णयः कृतः ॥ द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥ M.R. 26

202 मानमेयरहस्यश्लोकवार्तिके श्रेयस्साधनता ह्येषां नित्यं वेदात्प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥ कार्यमात्रे कारणं तत् अदृष्टमिति वैदिकाः । तत्र लोकायताः प्राहुः कुतोऽदृष्टं प्रकल्प्यते ॥ नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन । विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥ वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । केनेदं चित्रितं तस्मात् स्वभावाद्द्व्यवस्थितिः ॥ दृष्टेषु कारणेष्वेव सूक्ष्मो भेदः प्रकल्प्यताम् । किं धर्म्यन्तरक्लृप्त्येति तत्रेत्थं यौक्तिका विदुः ॥ 10 जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः । कृपिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥ अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित् । क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् ॥ तदेतद्दुर्धटं दृष्ट्वा कारणाव्यभिचारिणः । तेनादृष्टमुपेतव्यमस्य किंचन कारणम् ॥ अदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम् । यदि कश्चिदुपैयेत को दोषः कर्मकल्पने ॥ संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् । भूतवद्भूतधर्मस्य नच दृश्यत्वसंभवः ॥

अदृष्टवादः 20. दृष्टश्च साध्वीसुतयोर्यमयोः तुल्यजन्मनोः । विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ॥ स्वाभाविकत्वं कार्याणां बहुधा सुनिराकृतम् । तस्मात्कर्मभ्य एवैष विचित्रजगदुद्भवः ॥ सापेक्षत्वादनादित्वात् वैचित्र्याद्विश्ववृत्तितः । प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥ चिरध्वस्तं फलायालं न कर्मातिशयं विना । संभोगो निर्विशेषाणां न भूतैस्संस्कृतैरपि ॥ अथ स्यात्कर्मवैचित्र्यं कर्मान्तरकृतं यदि । अनवस्था स्वतः तस्माज्जगत्स्यादिति चेन्न तत् । कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता । दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतश्च सा ॥ तस्माद्दृष्टस्य कार्यस्य युक्ता कारणकल्पना । कारणस्य त्वदृष्टत्वे किं हेत्वन्तरचिन्तया ॥ हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने । संसारस्य ह्यनादित्वात्नानवस्था भयावहा ॥ शपता यत्कृतं पुण्यं शप्यमानमुपैति तत् । शप्यमानस्य यत्पापं शपन्तमुपगच्छति ॥ तथाच पुण्यः पुण्येन पापः पापेन कर्मणा । जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥

204 मानमेयरहस्यश्लोकवार्तिके 11 इति यौक्तिकसिद्धान्ते धर्मादिरनुमीयते । चोदनैकाधिगम्यत्वसिद्धान्ते किंचिदुच्यते ॥ विहितप्रतिषिद्धत्वे मुक्त्वाऽन्यत् न च कारणम् । धर्माधर्मावबोधस्य तेनायुक्ताऽनुमानगीः ॥ अनुग्रहाच्च धर्मत्वं पीडातश्चाप्यधर्मताम् । वदतो जपसीध्वादिपानादौ नोभयं भवेत् ॥ क्रोशता हृदयेनापि गुरुतल्पादिगामिनाम् । भूयान् धर्मः प्रसज्येत भूयसी ह्युपकारिता ॥ अनुमानप्रधानस्य प्रतिषेधानपेक्षिणः । हृदयक्रोशनं कस्मात् दृष्टां पीडामपश्यतः ॥ पीडातश्चाप्यधर्मत्वं तथा पीडामधर्मतः । अन्योन्याश्रयमाप्नोति विना शास्त्रेण साधयन् ॥ तस्मादनुग्रहं पीडां तद्भावमपास्य च । धर्माधर्मार्थिभिर्नित्यं मृग्यौ विधिनिषेधकौ ॥ हिंसायाः विषयो यादृक् प्रेत्य कर्तुस्तथाविधम् । फलं प्रजायते यद्वच्छास्त्रोक्ते दानकर्मणि ॥ मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ य एवमाह तस्यापि गुरुस्त्रीगमनादिभिः । सुरापानादिभिश्चापि विपक्षैः व्यभिचारिता ॥