मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 245, कुल 672 में से
संदर्भ में पढ़ेंअदृष्टवादः 20. दृष्टश्च साध्वीसुतयोर्यमयोः तुल्यजन्मनोः । विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ॥ स्वाभाविकत्वं कार्याणां बहुधा सुनिराकृतम् । तस्मात्कर्मभ्य एवैष विचित्रजगदुद्भवः ॥ सापेक्षत्वादनादित्वात् वैचित्र्याद्विश्ववृत्तितः । प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥ चिरध्वस्तं फलायालं न कर्मातिशयं विना । संभोगो निर्विशेषाणां न भूतैस्संस्कृतैरपि ॥ अथ स्यात्कर्मवैचित्र्यं कर्मान्तरकृतं यदि । अनवस्था स्वतः तस्माज्जगत्स्यादिति चेन्न तत् । कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता । दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतश्च सा ॥ तस्माद्दृष्टस्य कार्यस्य युक्ता कारणकल्पना । कारणस्य त्वदृष्टत्वे किं हेत्वन्तरचिन्तया ॥ हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने । संसारस्य ह्यनादित्वात्नानवस्था भयावहा ॥ शपता यत्कृतं पुण्यं शप्यमानमुपैति तत् । शप्यमानस्य यत्पापं शपन्तमुपगच्छति ॥ तथाच पुण्यः पुण्येन पापः पापेन कर्मणा । जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥