मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 244, कुल 672 में से
संदर्भ में पढ़ें202 मानमेयरहस्यश्लोकवार्तिके श्रेयस्साधनता ह्येषां नित्यं वेदात्प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥ कार्यमात्रे कारणं तत् अदृष्टमिति वैदिकाः । तत्र लोकायताः प्राहुः कुतोऽदृष्टं प्रकल्प्यते ॥ नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन । विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥ वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । केनेदं चित्रितं तस्मात् स्वभावाद्द्व्यवस्थितिः ॥ दृष्टेषु कारणेष्वेव सूक्ष्मो भेदः प्रकल्प्यताम् । किं धर्म्यन्तरक्लृप्त्येति तत्रेत्थं यौक्तिका विदुः ॥ 10 जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः । कृपिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥ अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित् । क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् ॥ तदेतद्दुर्धटं दृष्ट्वा कारणाव्यभिचारिणः । तेनादृष्टमुपेतव्यमस्य किंचन कारणम् ॥ अदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम् । यदि कश्चिदुपैयेत को दोषः कर्मकल्पने ॥ संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् । भूतवद्भूतधर्मस्य नच दृश्यत्वसंभवः ॥