भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 243, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 243

अदृष्टवादः 20 3 अपूर्व एव वाक्यार्थः नियोगः धर्मशब्दितः । इति प्राभाकराः प्राहुः ते वाच्यापूर्ववादिनः ॥ 4 कर्मजन्यो हि संस्कारः पुंसो बुद्ध्यादिवद्गुणः । तस्य चाफलसंयोगादवस्थितिरुपेयते ॥ स यागदानहोमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥ इति कौमारिलाः प्राहुः ते कल्प्यापूर्ववादिनः । 5 सांख्याः पुनः प्राहुरन्तःकरणस्याचिदात्मनः ॥ बुद्धेः वृत्तिविशेषं तत् अदृष्टमिति कल्पितम् । 6 धर्मः स्यात् शाक्यभिक्षूणामदृष्टा चित्तवासना ॥ 7 धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् । विभुरूपं तत्तु तत्त्वान्तरं चेत्यपि कीर्त्यते ॥ 8 आराध्यदेवताप्रीतिरिति वैयासिकं मतम् । स च सर्वेश्वरस्यैव सङ्कल्प इति निर्णयः ॥ 9 विस्तरस्तस्य च पुनर्विवेकाय विलिख्यते । शास्त्रैकसमधिगम्यं श्रेयसस्साधनं तु यत् ॥ स धर्म इति जैमिन्याचार्यैर्लक्षणमुच्यते । तस्यैव शाबरो भाट्टो गौरवो निर्णयः कृतः ॥ द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥ M.R. 26