मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 242, कुल 672 में से
संदर्भ में पढ़ें200 मानमेयरहस्यश्लोकवार्तिके यद्वा वायुगुणश्शब्दो ध्वनिनादपदाभिधः । पूर्वकल्पेऽतीन्द्रियस्स्यात् द्वितीये श्रुतिगोचरः ॥ 9 ध्वनिनादश्च घोषश्च वीणाघण्टादिभेदतः । प्रायेण व्यवहारेण विभिन्ना लोकविश्रुताः ॥ एवं ध्वनिविकल्पस्तु बहुधा प्रसमीक्ष्यते । शब्दनित्यत्वाधिकृतौ वाक्यपद्यां च विस्तृतः ॥ (45) अदृष्टवादः. 1 धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् । गङ्गास्नानादियागादेः व्यापारस्स तु कीर्तितः ॥ नाश्यस्त्वसौ कर्मनाशास्पर्शसंकीर्तनादिना । अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ॥ प्रायश्चित्तादिना नाश्यः जीववृत्ती त्विमौ गुणौ । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥ स्वगुणाः परमाणूनां विशेषाः पाकजा मताः । इमौ तु तत्त्वविज्ञानादपि क्वापि विनश्यतः ॥ अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः । 2 शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥ तस्मात्फले प्रवृत्तस्य यागादेश्शक्तिमात्रकम् । उत्पत्तौ वाऽपि पश्चादेः अपूर्वं न ततः पृथक् ॥