भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 241, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 241

शब्दाः स्युस्तन्मते नूनं स्वरव्यञ्जनलक्षणाः । ततो विशेषसामान्यभा क्स्स्यात् ध्वनिशब्दयोः ॥ २ शब्दत्वव्याप्यसामान्यं ध्वनित्वं कतिचिद्विदुः । मतमेतत्तु बहुशो भवेत्तार्किकसम्मतम् ॥ ३ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । शाब्दिकैः व्यक्तयस्तास्तु ध्वनित्वेन प्रकल्पिताः ॥ तन्मते ध्वनयो ज्ञेयाः स्वरव्यञ्जनलक्षणाः । ४ अनित्यस्फोटपक्षे तु ध्वनितत्त्वमिदं मतम् ॥ यः शब्दः प्रथमं जातः स स्फोट इति कीर्त्यते । तद्रूपप्रतिबिम्बावग्राहिणः सर्वतोमुखाः ॥ मन्दप्रदीपप्रकाशरूपभानक्रमेण ये । भासमानाः श्रुतिं वाणीं ध्वनयो विभजन्ति ते ॥ ५ स्फोटानित्यत्वपक्षे तु यस्संयोगविभागजः । स ध्वनिः तदभिव्यङ्ग्यः स्फोटो वर्णविभागशः ॥ ६ आदौ कारणतो जातः शब्दः कैश्चित् ध्वनिः स्मृतः। नादो द्वितीयादिशब्दः तद्व्यङ्ग्यः स्फोट इष्यते ॥ ७ तथाऽऽकाशगुणश्शब्दः ध्वनिस्स्यात् गौरवे मते । वर्णास्ते तदभिव्यङ्ग्याः तेऽप्याकाशगुणा मताः ॥ ८ वायुसंयोगादिरेव संयुक्तादिस्स एव वा । ध्वनिरित्याहुरपरे वायव्यध्वनिवादिनः ॥