मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 233, कुल 672 में से
संदर्भ में पढ़ेंप्राकट्यं प्रकटं वा स्यादन्यतः स्वत एव वा । आयेऽनवस्थितिशेषे बुद्धिरैव तथा न किम् ॥ स्वदते मोदत इति यथा भाति घटस्तथा । शब्दानां नियतिस्सेयं नार्थधर्मप्रसाधकम् ॥ इष्टता द्विषता चैव कृतता च प्रनष्टता । तथा संस्कृतता च स्यात् अधिका ज्ञातता यथा। प्राकट्यं हि गुणः प्रोक्तस्स रूपादी कथं भवेत् । गतिक्रियायाः कर्मत्वं प्राप्त्या चेत्फलरूपया ॥ प्राप्तिक्रियायाः कर्मत्वं किमन्यदिह कथ्यते । तस्मात्प्राकट्यसिद्धान्तः मतिजाड्यनिबन्धनः ॥ ज्ञानस्य द्रव्यरूपत्वे स स्यात्संयोगलक्षणः । दृग्दृश्यसंगतिं चान्ये दुर्निरूपां विदुर्बुधाः ॥ स योगाचारमार्गः स्यात्तादात्म्ये पर्यवस्यति । तद्बाधूननायैव प्राकट्यपरिरक्षणम् ॥ (43) शब्दवादः. 1 वैभाषिकास्तु शब्दादीन् पञ्चधाऽणून् प्रचक्षते । शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥ अणवस्सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः । छायातपतमश्शब्दभावेन परिणामिनः ॥