मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 234, कुल 672 में से
संदर्भ में पढ़ें192 मानमेयरहस्यश्लोकवार्तिके स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाद्या इति तन्मतम् ॥ 2 निरोधोत्पत्तिधर्मं च शब्दं वस्त्वन्तरं परे । अनाश्रितं महाभूतसंक्षोभजनितं विदुः ॥ 3 शब्दस्यावयवास्सूक्ष्माः सन्ति केचन पुद्गलाः । तैर्वर्णो जायते तैश्च शब्दोऽन्योऽवयवी भवेत् ॥ स च क्रियाश्रयः स्पर्शगुणवान् त्वग्गोचरः । महत्त्वाणुत्वगुणवानुद्भवाभिभवाश्रयः ॥ स्वभूमेस्सोऽभिनिष्क्रम्य तिर्यगूर्ध्वमधोऽपि च । पुंसां श्रुत्यन्तरं चोपसर्पतीत्यार्हतं मतम् ॥ 4 अजस्रमूर्तिर्यश्शब्दः सूक्ष्मत्वान्नोपलभ्यते । व्यजनाद्वायुरिव सः स्वनिमित्तात्प्रतीयते ॥ स एव कैश्चित्कुशलैराकाश इति पठ्यते । इत्याहुरपरे शब्दसाक्षात्कारविचक्षणाः ॥ 5 अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन स्फोटं तं मनुते हरिः ॥ शब्दब्रह्म यदेकं यच्चैतन्यं प्राणिनां तथा । इदं त्रिभुवनं सर्वं यत्परिणाम इत्यपि ॥ हलायुधोऽब्रवीदेवं तथाऽऽलंकारिका विदुः । देवतां कांचिदुद्दिश्य भक्त्या यो वक्ति किंचन ॥