भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 232, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 232

190 मानमेयरहस्यश्लोकवार्तिके संविदन्तरनिष्पत्तिसमये पूर्वसंविदः । नष्टत्वादुक्तसंबन्धो न तद्गोचरतामियात् ॥ किंतु संवेत्तृधर्मोऽसौ प्राप्त्याख्यः स्वात्मसाक्षिकः। निष्पन्नायां तु संवित्तौ स संबन्धोऽवभासते ॥ ततएवच संवित्तिवस्तुकल्पनसंभवात् । संवित्तैः स्वप्रकाशत्वकल्पना गुरुताऽऽहृता ॥ 3 प्राकट्यं स्यात् ज्ञानधर्मः इत्याहुः किल सौगताः । आत्मधर्म इति प्राहुः प्राभाकरमतानुगाः॥ प्राकट्यं नाम सर्वेषु विषयेषु स्थितो गुणः । इति कौमारिलाः प्राहुः हेतुः प्रागेव विस्तृतः ॥ ज्ञानार्थयोश्च संबन्धः यस्स्याद्विषयताऽऽत्मकः । स ज्ञानरूप एवेति नैयायिकमुखा विदुः ॥ अतिरिक्तं पदार्थं तं नव्यनैयायिका विदुः । विषयत्वविकल्पस्तु संबन्धेऽत्र प्रपञ्च्यते ॥ सर्वासां च प्रतीतीनां बुद्धिसंबन्धमात्रतः । उपपत्तेः प्रकाशोऽन्यैः तदन्यो नाभ्युपेयते ॥ यदि कल्प्येत विषये प्राकट्यं व्यवहारतः । तद्धेतुत्वेन कल्प्या धीः तत्फलार्थं प्रकल्प्यताम् ॥ यदि तत्रैव तस्यैव प्राकट्यं ते धिया भवेत् । तथा ज्ञानादयोऽपि स्युः किमन्तर्गडुनाऽमुना ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 232, कुल 672 में से · BharatKosha