भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 236, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 236

194 मानमेयरहस्यश्लोकवार्तिके 9 आकाशस्य गुणश्शब्दो यस्संयोगविभागजः । वर्णध्वन्यात्मकः गत्वगान्धारत्वादिजातिमान् ॥ उत्पन्नः को विनष्टः कः इति बुद्धेरनित्यता । तदेवौषधमित्यादितुल्यस्सोऽयमिति भ्रमः ॥ क्षणिकस्स्वसजातीयशब्दमारभते पुनः । तारङ्गान्मोकुलाद्वाऽपि न्यायादिति हि तार्किकाः ॥ 10 भगवानुपवर्षोऽपि मतान्येतान्यधिक्षिपन् । गौरित्यत्राथ कश्शब्दः इत्याद्याहेति शाबरम् ॥ वर्णात्मकास्तु ये शब्दा नित्यास्सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥ वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते । पदे न वर्णा भिद्यन्ते वर्णेष्ववयवा न च ॥ वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन । ह्रस्वोदात्तद्रुतत्वादिधर्माः व्यञ्जकसंस्थिताः ॥ अध्यस्ता अपि वर्णेषु प्रतीत्यौपयिका मताः । व्यञ्जकस्तु ध्वनिस्सोऽयं वायुर्वा तद्गुणोऽस्तु वा ॥ अभिव्यञ्जकनानात्वात् वर्णो नानेव लक्ष्यते । नेत्रवृत्तिविभेदेन वर्णस्तैमिरिकैरिव ॥ यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये । ध्वनिधर्मोऽपि दीर्घादिः वर्णानामुपकारकः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 236, कुल 672 में से · BharatKosha