मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 237, कुल 672 में से
संदर्भ में पढ़ेंशब्दवादः 195 यथा सर्वगता जातिः पिण्डदेशैव गृह्यते । नच कात्स्न्र्यगृहीताऽपि पिण्डेऽन्यत्र न दृश्यते ॥ तथा सर्वगतश्शब्दः नाददेशेषु गृह्यते । कात्स्न्र्येन च गृहीतोऽपि पुनरन्यत्र गृह्यते ॥ पिण्डोऽभिव्यञ्जको जातेः वर्णस्य व्यञ्जको ध्वनिः। आश्रितानाश्रितत्वादिविशेषः क्वोपयुज्यते ॥ प्रतिभावाक्यवाक्यार्थवादाद्यनवकाशिनी । शब्दस्य नित्यता वर्णलक्षणस्यैव साध्यते ॥ 11 व्यवहारानादितायै सैषा कूटस्थनित्यता । प्रवाहतस्तु नित्यत्वं क्रमस्याभ्युपगम्यते ॥ क्रमस्य कालरूपत्वात् कालो नित्यो विभुस्ततः । क्रमोऽपि कूटस्थनित्य इति केचिद्विदुर्बुधाः ॥ शब्दत्वं परसामान्यमपरं स्वरतादिकम् । गत्वादिकं न सामान्यं एकव्यक्त्याख्यदोषतः॥ वर्णा एवावगम्यन्ते न पूर्वापरवस्तुनी । वर्णकारणभूता येऽवयवाः पूर्वशब्दिताः ॥ गत्वमत्वं चावयवी गोशब्दत्वं गणोऽपि वा । स्फोटश्चेति विकल्पाश्चापरशब्दविवक्षिताः ॥ प्रयोजनं तु यज्जात्या तद्वर्णादेव जायते । व्यक्तिलभ्यं तु नादेभ्यः इति गत्वादिधीः वृथा ॥