भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 238, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 238

196 मानमेयरहस्यश्लोकवार्तिके त्रिगुणः पौद्गलो वाऽयं आकाशस्याथवा गुणः । वर्णादन्योऽथ नादात्मा वायुरूपोऽर्थवाचकः ॥ पदवाक्यात्मकः स्फोटः सारूप्यान्यनिवर्तने । एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ॥ प्रत्यभिज्ञा यदा शब्दे जागर्ति निरवग्रहा । अनित्यत्वानुमानानि सैव सर्वाणि बाधते ॥ नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते । तदुपश्लेषतस्तस्य बोधं केचित्प्रचक्षते ॥ नैव वा ग्रहणं तेषां शब्दे बुद्धिस्तु तद्वशात् । संस्कारानुकृतेः, यद्वत् महत्त्वाद्यवगम्यते ॥ 12 एवं सिद्धान्तयन्त्यत्र कुमारिलविपश्चितः । अपिचैते स्फोटवादे नैयायिकमतेऽपि नः ॥ व्यक्त्याकृतिकृतो भेदो यद्यप्येकान्ततो भवेत् । वर्णेषु, जैमिनेः पक्षः तथाऽपि न विरोत्स्यते ॥ नित्यत्वयत्नस्सर्वोऽपि गत्वादिषु भविष्यति । गकारादिवचस्त्वेतत्तेष्वेव न विरोत्स्यते ॥ इति स्पष्टं यतः प्राहुः युक्तिज्ञास्सरलाशयाः । अतस्तार्किकसिद्धान्तो नानिष्ट इति गम्यते ॥ कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिरिति युक्तिर्गरीयसी ॥