मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 230, कुल 672 में से
संदर्भ में पढ़ें188 मानमेयरहस्यश्लोकवार्तिके साक्षिवेद्यत्वसिद्धान्तः पर्यायादयमेवहि । स्वप्रकाशात्मवादो वा सर्वमेकफलोन्मुखम् ॥ अत्रैव शाक्यभिक्षूक्तं वचनं त्ववधार्यताम् । तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ॥ तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् । विकल्पो यदि बाह्येऽपि किं वक्तव्यमिहान्तरे ॥ (42) प्राकट्यवादः. 1 अथ बुद्धिप्रसङ्गेन प्राकट्यमिह कथ्यते । भाट्टदृष्टः प्रकटता गुणः न तु परैः बुधैः ॥ घटो हि विद्यमानोऽपि कस्यचिद्व्यवहार्यताम् । प्रपद्यते न सर्वेषामथवा नापि सर्वदा ॥ तस्माद्यदा व्यवहरेत् चेतनोऽसौ घटादिना । तदा तद्व्यवहारस्यानुगुणोऽतिशयोऽस्ति यः ॥ स ज्ञानमिति सर्वेऽपि कल्पयन्ति परीक्षकाः । उत्पन्नमेव तत् ज्ञानं प्रत्यक्षमिति केचन ॥ ज्ञानजन्यादतिशयादनुमेयमितीतरे । कीर्त्यतेऽसौ प्रकटता दृष्टता ज्ञाततेति च ॥ सामान्यतस्तु प्राकट्यमिति तैः परिभाष्यते । दृष्टता जायतेऽध्यक्षात्परोक्षात् ज्ञाततेत्यपि ॥