भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 229, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 229

[Header] बुद्धिपादः 187

वाक्यार्थवादे तत्तत्त्वं स्फुटमग्रे भविष्यति । प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥ एवं प्रयत्नत्रैविध्यं तार्किकैः परिकीर्तितम् । तत्र जीवनयोनिर्यः स च कैश्चिन्न कल्प्यते ॥ अदृष्टादेव च प्राणसंचारं ते विदुर्बुधाः । प्रवृत्त्यभाव एव स्यान्निवृत्तिरिति केचन ॥ निवृत्त्यभावः प्रवृत्तिरित्याशङ्का दुरुत्तरा । निवृत्तिर्यत्नभेदस्स्यादिति नव्याः विदुर्बुधाः ॥ 4 आनुकूल्यप्रातिकूल्येवेद्यता सुखदुःखयोः । लक्षणं तत्रानुकूलं सुखं, दुःखं विपर्ययः ॥ प्रायो विदितमेवैतत् कैश्चिद्वेदान्तिभिः पुनः । अनुकूलतया वेद्यं सर्वं सुखमितीष्यते ॥ प्रतिकूलतया वेद्यं सर्वं दुःखमिति स्मृतम् । अतः सर्वे पदार्थास्स्युः सुखदुःखपदाभिधाः ॥ सैषाऽऽनन्दस्य मीमांसा युवा स्यादित्युपक्रमात् अनुकूलतया वेद्यं सर्वमानन्दमब्रवीत् ॥ आनुकूल्यं विषयताविशेषः सर्वगामि तत् । तस्मात्सर्वं सुखं यद्वा तज्ज्ञानं सुखमिष्यते ॥ तद्धेतोरेव तत्त्वे तु किं वस्त्वन्तरचिन्तया । तस्मादविदितावस्थायोगित्वं तस्य नेष्यते ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 229, कुल 672 में से · BharatKosha