मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 222, कुल 672 में से
संदर्भ में पढ़ेंविरोधस्य परित्यागप्रसङ्गादिति तात्त्विकाः । इति वैशेषिकाः प्राहुरेषा सौगतपद्धतिः ॥ असिद्धः क्षणभङ्गेन संयोगस्स्यात्सहेतुकः । स्याच्चाविरलदेशस्योत्पत्त्या वा सिद्धिरन्यथा ॥ तस्मात्संयोगसंबन्धो विकल्प इति ते विदुः । संबन्धतत्त्वापलापः प्राग्रूपं शून्यसंपदः ॥ नैरन्तर्यं त्वन्तरालाभावरस्संयोग एव चेत् । अभावस्स्यादसन् तुच्छः न कार्यं नापि कारणम् संयोगेऽन्तर्भावयन्ति पदार्थं कर्मलक्षणम् । केचिद्दार्शनिकाः केचित्तार्किकाः भूषणानुगाः ॥ संयोगमेव विषयविषयित्वं विदुः परे । द्रव्ययोरेव संयोगनियमं न प्रचक्षते ॥ अतीतेऽनागते चापि संयोगस्यास्ति संभवः । समकालिकयोरेव संयोग इति नेष्यते ॥ 11 संयोगयुक्तिरेवात्र विभागेऽपि विपर्ययात् । शक्याऽनुसंधातुमिति क्रियते नात्र विस्तरः ॥ संयोगाभावरूपश्चेद्विभक्त इति शेमुषी । भवेद्विज्ञानवादेन सर्वापह्नवसंभ्रमः ॥ विभागो यदि संयोगनाशः किं न विपर्ययः । मिथो विनिगमाभावे तूभयं चेह निर्भयम् ॥