भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 221, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 221

गुणवादः 179

सामानाधिकरण्येन व्यपदेशो न विद्यते । पृथक्त्वं लक्षणं भेद इत्यनर्थान्तरं विदुः ॥ भेदोऽप्यसाधारणोऽसौ धर्म एवेति तात्त्विकाः । एकद्वित्रिपृथक्त्वादि संख्यावदिति निर्णयः ॥ वैशेषिकविशेषाणां पृथक्त्वेनान्यथा गतेः । नित्यानां निष्प्रमाणोऽयं विशेष इति वैदिकाः ॥ 10 अप्राप्तिपूर्विका प्राप्तिः संयोगस्सार्वलौकिकः । अबाधिता प्रतीतिश्च संयुक्त इति तद्वति ॥ नान्यथाऽवयवी सिद्धयेत् उत्पत्तिरपि पाकजा । न स्याच्च जगतः सृष्टिः तथा यन्त्रादिकल्पना ॥ आलानादिविनिर्माणं संसर्गश्चेन्द्रियार्थयोः । संबन्धो बीजजलयोः शौचाशौचव्यवस्थितिः ॥ न स्याच्छब्दोत्पत्तिरपि जगत्स्यादपि निश्चलम् । विभोर्न च्छिद्रमणुना नाणूनां विभुना च तत् ॥ यथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत् । न विभज्यते गच्छद्भिः न विहन्ति गतिं च यत् ॥ अस्पर्शात्तथाभूतं विभु वाऽविभु वाऽस्तिहि । कौमारिलास्त्वजमपि संयोगं श्रोत्रशब्दयोः ॥ विभ्वोरिच्छन्ति तत्पक्षे स्याद्विभागोऽपि तादृशः । इत्याक्षेपस्तार्किकाणां नचेष्टापत्तिसंभवः ॥