मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 220, कुल 672 में से
संदर्भ में पढ़ें178 मानमेयरहस्यश्लोकवार्तिके अणूनां स्यात्परिमितिराकाशमिततैव हि । तस्मादवच्छेदभेदान्महदित्यादिधीरिति॥ विभुत्वं तर्हि सर्वेषां स्यादित्यापाद्यते बुधैः । परस्परविरोधे हि न प्रकारान्तरस्थितिः ॥ सर्वप्रकारपरिमित्यभावो विभुतैव हि । सर्वोत्कृष्टपरीमाणं विभुत्वमिति केचन ॥ अवस्थैव परीमाणं प्रकृतेरिति कापिलाः । उपाधिभिः पार्श्वभेदः परमाणोरितींतरे ॥ स प्रदेशा निरंशोऽपि स्वभावादिति चार्हताः । उपाधीनामुपाधिश्चेत् भवेदेवानवस्थितिः ॥ 9 पृथक्त्वं भेद इत्यन्ये वैशिष्ट्यमिति केचन । परे वैधर्म्यमित्याहुः गुणान्तरमितीतरे ॥ अयमस्मात्पृथगिति प्रतीतेः भिन्न इत्यसौ । विलक्षणा प्रतीतिः स्यादित्याहुर्वृद्धतार्किकाः ॥ वैशिष्ट्यस्य पृथक्त्वे तु व्योम्नि शब्दविशेषिते । व्यवहारः पृथक्त्वेनापाद्यते प्रागपेक्षया ॥ वैधर्म्यस्य पृथक्त्वे तु पाकरक्ते घटे पुनः । श्यामाद्घटात्पृथगिति व्यवहारः प्रसज्यते ॥ पृथक्त्वं भेद एवेति नव्यतार्किकनिर्णयः । भेद एव पृथक्त्वं स्यात् भिन्नः पृथगसाविति ॥