मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 219, कुल 672 में से
संदर्भ में पढ़ेंआभिज्ञाग्राह्यमेकत्वमन्यत् तस्माद्विलक्षणम् । प्रत्यभिज्ञाग्राह्यमिति विपश्चिद्भिर्निरूपितम् ॥ देशकालादिभेदेन भेदो यस्तु प्रसज्यते । तद्विरोधैक्यमेतत्स्यादिति तल्लोकसाक्षिकम् ॥ तेनैव क्षणभङ्गं तं निरुन्धन्ति विपश्चितः । प्रत्यभिज्ञाविचारस्तु क्षणवादे प्रतिष्ठितः ॥ 8 मानव्यवहृतेर्हेतुः परिमाणमितीर्यते । महद्दीर्घमणु ह्रस्वमिति तत्स्याच्चतुर्विधम् ॥ परमाणुरणुः ज्ञेयः त्र्यणुकाद्यं महत् मतम् । द्व्यणुकं स्यादणु ह्रस्वं तदूर्ध्वं दीर्घमिष्यते ॥ विभुद्रव्याणि परममहान्तीति विनिर्णयः । परमाणौ विभौ चापि मानं नास्तीति केचन ॥ परिमाणं तु परितो भाववेष्टनलक्षणम् । तच्चापरिमितख्यातेः विभौ नास्तीति केचन ॥ देशव्याप्तिविशेषः स्यात् परिमाणमितीतरे । राज्यादिषु महत्त्वादिः देशसंबन्ध एवहि ॥ आर्जवेनैकदिग्योगो दीर्घतेत्येवमूह्यताम् । वक्रत्वं चतुरश्रत्वं कुण्डलत्वादिकं तथा ॥ परिमाणं हि परितो मानमित्यभिधीयते । आकाशधातुरेवायं स तुच्छ इति सौगताः ॥ M.R. 23