मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 223, कुल 672 में से
संदर्भ में पढ़ेंगुणवादः 18 पूर्वसंयोगनाशश्चेदौत्तरो योग उच्यते । विभक्तसंयुक्ताधियां सांकर्यं दुर्निवारणम् ॥ 12 परत्वं चापरत्वं च दैशिकं कालिकं द्वयम् । आद्यं संयुक्तसंयोगभूयस्त्वाल्पत्वधीकृतम् ॥ कालिकं सूर्यचलनभूयस्त्वाल्पत्वधीकृतम् । भूयस्त्वाल्पत्वबुद्धी ते अपेक्षाबुद्धिसंज्ञिते ॥ ताभ्यामेवान्यथासिद्धिं तयोः केचिद्विदुर्बुधाः । बुद्धयधीने हि विज्ञानवादशङ्का प्रसज्यते ॥ विद्यावृत्ताभिजात्यादौ परताऽपरताऽपिच । गुणे गुणमजानाद्भिः अखिलैर्व्यपदिश्यते ॥ द्विपरत्वादयो न स्युः द्विपृथक्त्वादिवत्पुनः । नीलाविमौ द्वावितिवत् द्वाविमौ च पराविति ॥ सदाऽनवाधिकत्वेन प्रतीतेरिति गम्यताम् । द्वित्वैकार्थत्वतश्चापि तेषां स्यादन्यथागतिः ॥ परत्वादिगुणाभावे चाभावो देशकालयोः । तद्विस्तरः कालवादे स्थित इत्युपरम्यते ॥ 13 गुरुत्वमाद्यपतनासमवायितया गुणः । अतीन्द्रियं चाम्बुभूम्योः कल्प्यते किल तार्किकैः नव्यास्तन्नोपगच्छन्ति वस्त्वधोदेश एवहि । गुरुत्वबुद्धिविषयः ततस्स्यात्पतनादिकम् ॥