भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 247, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 247

अदृष्टवादः 20 क्षत्रं क्षत्रस्य यद्धर्मः नास्ति तस्मात्परं भुवि । इति सृष्टिप्रकरणे श्रुता शातपथी श्रुतिः ॥ 12 इत्याहुर्धर्ममीमांसाविदो यद्यपि युक्तितः । तथापीदं बुधास्तत्र विमृशन्ति धिया यथा ॥ अनुग्रहो निग्रहो वा नैकस्यात्र विवक्षितः । अन्यथा दण्ड्यदण्डादावपि पापादि संभवेत् ॥ निग्राहकं भूयसां यत् यच्चानुग्राहकं तथा । विवक्षितं तदेवात्र जपादिष्वपि चास्ति तत् ॥ यत्परंपरया साक्षाद्वा स्याच्चेदुपकारकम् । भूयसां धर्म एवासौ विपरीतं विपर्ययः ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ आर्याः प्रशंसन्ति यत्तु क्रियमाणमितीरितम् । आपस्तम्बादिभिः व्यासमहर्षिप्रमुखैः पुनः ॥ श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ इत्युदीरितमेतेन निष्कृष्टार्थोऽयमुच्यते । एतावज्जन्मसाफल्यं प्राणिनामिह देहिषु ॥ प्राणैरर्थैर्धिया वाचा श्रेयआचरणं सदा । निष्कर्षोऽयं सर्वनरदेशकालानुपप्लुतः ॥