भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 248, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 248

206 मानमेयरहस्यश्लोकवार्तिके 13 कर्मानुष्ठानजनितदेवताबुद्धिरेव हि । अदृष्टमिति सिद्धान्तः बादरायणसम्मतः ॥ यागो हि देवतापूजा पूजनं प्रीणनं मतम् । अतो यज्ञाराधितस्सन् फलं देवः प्रयच्छति ॥ नच प्रीतेरपूर्णत्वं नच कोपात्सदुःखता । फलप्रदित्सारूपत्वादुभयोरपि कर्मणोः ॥ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥ इति लाघवयुक्तिस्तु शास्त्रेणैव व्यपोद्यते । प्रजया पशुभिश्चैव तृप्त एनं समर्धयेत् ॥ अन्नादो वसुदानश्चेत्याद्याः बह्वीरधीयते । यथा स्वर्गपरो वेदः तथा वै देवतापरः ॥ प्रत्यक्षमुभयं कस्माद्देवताद्वेषसंभवः । कृष्यादौ मर्दनादौ च फलं स्यात्स्वस्वशक्तितः । न तद्वदेव शास्त्रीये कर्मण्यपि कुतो भवेत् । नहि दृष्टान्तमात्रेण श्रुतस्य त्याग इष्यते ॥ राज्ञामाज्ञानुवृत्त्यादेः प्रीतिकोपौ हि सिध्यतः । प्रधानकर्मवत्प्रीतिः गुणकर्मस्वपीष्यते ॥ केचित्सत्त्वसमुद्रेकं द्रव्यादिष्वनुजानते । सोऽपीशसंकल्पनिघ्नः तं विना न तृणं चलेत् ॥