मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 260, कुल 672 में से
संदर्भ में पढ़ें218 मानमेयरहस्यश्लोकवार्तिके भेषजं नोपभुज्येत विबुधैरातुरैरपि । स्वेच्छया करणाभावे शास्त्रादेरप्यनुत्थितिः ॥ तत्सा स्वतन्त्रता पुंसां कर्मकर्तृत्वकारणम् । येच्छानुकूलानुष्ठानसामर्थ्येऽन्यानिवार्यता ॥ 3 अथ प्राक्प्राक्कर्ममूलज्ञानेच्छादिनियन्त्रितः । कथं स्वतन्त्रः पुरुषो नदीवेगहतो यथा ॥ नहीच्छोत्पत्तिमात्रेण पुंसामर्थ्यं विनश्यति । प्रायेण विपरीतेच्छामसत्कुर्वन्ति सूरयः ॥ सत्यामप्योदनेच्छायां विषसंपृक्तताधिया । तन्निवारणसामर्थ्यं चेतनस्येह दृश्यते ॥ निधिलाभोपायदृष्ट्या नरः काष्ठनिचायकः । विनिवारयितुं शक्तः काष्ठसंपादनस्पृहाम् ॥ एवंच प्रत्यवायस्य तथाऽधिकफलस्य वा । ज्ञाने सतीच्छान्तरस्य दृश्यते विनिवारणा ॥ पुंसां स्वातन्त्र्योपपत्त्या कर्तृत्वं युज्यते ततः । तत्कृत्याकरणाकृत्यकरणेच्छानिवारणे ॥ क्षमोऽपि प्रत्यवायस्यानादरेण विमूढधीः । न निवारयतीत्येषोऽपराधो दण्डकारणम् ॥ 4 सामान्येनेश्वरः कर्ता ह्यङ्कुराणां जलं यथा । विना तेन तृणस्याग्रं न चलेदिति कीर्त्यते ॥