मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 261, कुल 672 में से
संदर्भ में पढ़ेंअदृष्टसामर्थ्यम् 21
तथा कारयिता चानुमन्ता साक्षीत्यपीष्यते । करुणावसरस्तत्र श्रीभाष्योक्तोऽवधार्यताम् ॥ स्वशासनोल्लंघनाभिसन्धिविच्छेदमात्रतः । अनादिकालोपचितानन्तदुर्विषहागसाम् ॥ अनभ्युपगमद्वारा सुखसंवृद्धये स्वयम् । यतते च तथाचोक्तं वसुदेवतन्भूवा ॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 5 अथपुण्यापुण्यरूपकर्मशक्तिनिबन्धनाः । सर्वा व्यवस्थाः सिध्यन्ति कृतमीशेन तादृशा ॥ पुरुषार्थानुरूपा सा प्रकृतिः परिणंस्यते । तथा व्यवस्थया कर्मसंस्कारैरभिसंस्कृता ॥ परिणामविशेषोऽस्ति देशकालव्यवस्थया । विषादिदूषितस्यान्नपानादेर्दुःखकारणम् ॥ दृश्यते परिणामश्च सुखहेतुस्तथा भुवि । महौषधाप्यायितस्याप्यन्नादेः देशकालयोः ॥ अत्रोच्यतेऽनभिज्ञस्त्वं पुण्यापुण्यस्वरूपयोः । पुण्यापुण्यस्वरूपे हि शास्त्रैकाधिगते स्थिते ॥