मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 272, कुल 672 में से
संदर्भ में पढ़ें230 मानमेयरहस्यश्लोकवार्तिके दैवाधीनं जगत्सर्वमिति तत्त्वविदां वचः । मयि सर्वाणि कर्माणीत्युक्तगीतार्थगोचरम् ॥ (50) कर्मवादः. 1 कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् । अविभुद्रव्यसंस्थं तत् हेतुर्योगवियोगयोः ॥ वेगस्यापीति सिद्धान्तमाहुर्भाट्टाश्च तार्किकाः । न संयोगादिविषयः चलतिप्रत्ययो यतः ॥ सर्वसंयोगधाराऽपि धरा न चलतीति धीः । नवा तरङ्गिणीतीरपाषाणश्चलतीति धीः ॥ भूकम्पादौ महोत्पाते ह्यचला चलतीति धीः । संयोगो वा विभागो वा न कश्चित्तत्र दृश्यते ॥ 2 प्राभाकरास्तु मन्यन्ते कर्म चैतदतीन्द्रियम् । सुसूक्ष्मो व्यापार एषः सर्वद्रव्यगतोऽपि च ॥ अनुमेयं हि संयोगाद्विभागाद्वाऽऽर्ककर्मवत् । अन्वयव्यतिरेकानुविधानं चक्षुरादिभिः ॥ लिङ्गस्य दर्शने क्षीणं, गमनं यच्च चाक्षुषम् । स च संयोग एव स्यात् संयोगस्सर्वसम्मतः ॥ तत्र कौमारिलास्त्वित्थमाक्षेपं संप्रचक्षते । गुरुर्गृहीतविषयमनुमानं प्रजल्पति ॥