मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 273, कुल 672 में से
संदर्भ में पढ़ेंकर्मवादः 23 अनुमानेन कर्मादिसिद्धिमप्यभिवाञ्छति । 3 क्षणिकास्सर्वसंस्कारा अस्थिराणां कुतः क्रियाः । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत । ततोऽविरलदेशादेरुत्पादः कर्मलक्षणः ॥ संयोगादिस्स एवेति क्षणभङ्गोऽनुपद्रवः । इति युक्त्या सौगतास्तु कर्मैवापलपन्ति हि ॥ क्षणवादस्स दूष्यो हि प्रत्यक्षेणैव कर्मणा । कर्म चेदनुमेयं स्यात् जिता एव हि सौगताः ॥ संयोगेनान्यथासिद्धिः वक्तुं शक्येत कर्मणः । नित्यत्वे सर्वदा जन्म स्यात्संयोगविभागयोः ॥ अनित्यत्वेऽस्य यो हेतुस्तेनैव स्यात्तयोर्जनिः । तद्धेतुरेव तद्धेतुरिति न्यायोऽहि लौकिकः ॥ 4 अतएवहि काणादाः कर्मणः कर्मसाध्यताम् । स्वभाववादभङ्गाय धूत्वाऽऽहुर्गुणसाध्यताम् ॥ आत्मजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः । कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया ॥ अदृष्टाधीनतां चाहुः ज्वलनोर्ध्वादिकर्मणाम् । एतेन चेतनायत्तं सर्वं कर्मेति साधितम् ॥ कृतेराख्यातवाच्यत्वस्थापनैतन्निबन्धना । व्यापारमात्रवादस्त सांख्यादिमितिमूलकः ॥