मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 274, कुल 672 में से
संदर्भ में पढ़ें232 मानमेयरत्नश्लोकवार्तिके अदृष्टं दृष्टसामग्रीं पुरस्कृत्यैव कारकम् । इतीरयद्भिरप्यग्नेरूर्ध्वज्वलनमिष्यते ॥ कर्मणः कर्मसाध्यत्वं निषेधत्यपि जैमिनिः । अभिक्रामं जुहोतीति वाक्यस्यार्थनिरूपणे ॥ क्रियाकारकनिष्पाद्या कारकं मूर्त्तमिष्यते । कर्म चैतदमूर्त्तं स्यात् इति न्यायोऽत्र शाबरः ॥ क्रियैव कारकमिति क्षणप्रध्वंसवादिनाम् । सिद्धान्तोऽनेन वाक्येन संक्षेपेण कटाक्षितः ॥ कर्मणः कर्मसाध्यत्वं स्वीकृतं श्लोकवार्तिके । कर्मणः कर्मसाध्यत्वं नास्मत्पक्षे विरुध्यते ॥ अनात्मसमवेतस्य निमित्तं कर्म हीष्यते । इति वाक्याधिकरणपद्यमत्र निशम्यताम् ॥ निषिद्धं समवायित्वं स्वीकृता तु निमित्तता । इति रत्नाकरव्याख्या विरोधपरिहारिणी ॥ यद्यपि क्षणवादोऽयमेतेन प्रतिहन्यते । स्वभाववादावसरो निमित्तत्वेऽपि दुस्तरः ॥ 5 अत्र वेदान्तिनः केचिन्न्यायतत्त्वानुसारिणः । नैयायिकाश्च कतिचिन्न्यायभूषणयायिनः ॥ द्रव्ये गुणे वा विश्रान्तिं कर्मणो ये विजानते । तेषामाशयसारोऽयं संक्षेपादवधार्यताम् ॥