मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 275, कुल 672 में से
संदर्भ में पढ़ेंकर्मवादः 23. प्रत्यक्षं कर्म येऽप्याहुः नूनं तैरपि कर्मजात् । संयोगाद्वा विभागाद्वा निपुणं नान्यदीक्ष्यते ॥ चलतिप्रत्ययोऽपि स्यात्तावतैव मनीषिणाम् । चलत्यचलदित्याद्या धियोऽवस्थानिबन्धनाः ॥ कर्मादीनां गुणैर्द्रव्यैर्वाऽन्यथासिद्धिसंभवात् । द्रव्यं चाद्रव्यमित्येव विभागो मेयसंग्रहः ॥ एतावताऽपि भग्नास्ते भवन्ति क्षणभङ्गिनः । कर्मापह्नवसिद्धान्तो दुःस्थ एवेति च स्थितम् ॥ कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिरिति च श्लोकवार्तिके ॥ न प्रत्यक्षे इति ह्युक्तिश्शाबरी बुद्धिकर्मणी । प्रत्यक्षत्वे तयोस्स्याद्धि नित्यतेत्यपि तन्मतम् ॥ शब्दनित्यत्ववादे हि विस्तरेण निरूपितम् । उपालभन्ते चात्रेत्थमेतान् नैयायिकाः पुनः ॥ किंनाम शब्दनित्यत्वसमर्थनतृषातुरः । जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ॥ इत्येवं वादसंरम्भे विचित्रा धीमदुक्तयः । 6 अथ चात्रात्मसंबन्धिक्रियाचिन्ता निशम्यताम् ॥ साक्षाद्यद्यपि संबन्धो नात्मनो यज्ञसाधनैः । तथाऽपि लक्षणावृत्त्या शरीरद्वारको भवेत् ॥ M.R. 30