मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 283, कुल 672 में से
संदर्भ में पढ़ेंजातिवादः 241 5 शाब्दिकास्तां विदुस्सत्तां तदुक्तिरवधार्यताम् । संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ॥ जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ॥ सा नित्या सा महानात्मा तामाहुस्त्वतलादयः । अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता॥ कैश्चिद्व्यक्तय एवास्याः ध्वनित्वेन प्रकल्पिताः । सत्यासत्यौ तु यौ भावौ प्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिः असत्या व्यक्तयो मताः । तद्ब्रह्म स च शब्दः स्यात् सकलं तदधिष्ठितम् ॥ आकृतिग्रहणा जातिः लिङ्गानां च न सर्वभाक् । सकृदाख्याननिर्ग्राह्या गोत्रं च चरणैस्सह ॥ प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥ 6 अभाषत च संस्थानजातिपक्षं पतञ्जलिः । जातिनित्यत्वपक्षोक्तिरन्वारुह्येति नीयताम् ॥ संस्थानजातिसिद्धान्तसारांशोऽत्रावगम्यताम् । संस्थानं चाप्यवयवव्यूहस्सास्नादिलक्षणः ॥ जातेस्तु०व्यञ्जकं यत्स्यात् जातितस्तस्य संग्रहे । जातिमालाऽनवस्थाऽतः संस्थानं जातिरिष्यते ॥ M.R. 31