भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 284, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 284

242 मानमेयरहस्यश्लोकवार्तिके यद्यप्येकैकसंस्थं तत्संस्थानं गळकम्बळम् । स्वभावतः तथाऽप्येतत्सप्रतिद्वन्द्विकं मिथः ॥ प्रामाणिकं स्वरूपं यत् स स्वभाव इतीर्यते । तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥ सन्निवेशाः स्वभावेन नियतप्रतियोगिकाः । अन्योन्यसादृश्यरूपाः मिथः स्मारकतावशात् एकस्मृतिसमारूढाः एकबुद्धिनियामकाः । सादृश्यसामान्यशब्दावेकार्थाविति निर्णयः ॥ उपाधिसंकरन्यायादवस्थासंकरो मतः । भ्रमणस्यन्दनत्वाद्यमेकस्मिन् गमने मतम् ॥ अन्योन्यसप्रतिद्वन्दि रूपं सादृश्यमुच्यते । तदेवानुगतज्ञप्तिहेतुः जातिर्न चाधिका ॥ कथ्यते यैस्तु सादृश्यं संस्थानादिविलक्षणम् । गुरुत्वं जातिगुप्तौ च धृतं तैर्जातिगुप्तिवत् ॥ जातिखण्डनयुक्तीनां नावकाशोऽत्र लभ्यते । प्रायः परीक्षकाणामप्येतदेव मनोरमम् ॥ 7 तिर्यगूर्ध्वत्वभेदेन द्विविधं त्वार्हता विदुः । तुल्या परिणतिर्यत्र प्रतिव्यक्ति प्रदृश्यते ॥ तत्तिर्यग्यद्धि शबलाशावलेयादिवस्तुषु । गोत्वादिकं तथाऽश्वत्वनरत्वामरतादिकम् ॥