भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 285, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 285

पूर्वापरपरीणामसाधारणमवस्थितम् । द्रव्यं तदूर्ध्वताख्यं स्यात् कटकादिषु काञ्चनम् ॥ तथौपनिषदाः प्रायः तार्किकं वाऽथ वैदिकम् । पन्थानमाश्रिताः किंचित्किंचिद्भेदं समाश्रिताः ॥ 8 अथच ब्राह्मणत्वादिजातिव्यवहृतौ मताः । प्राचां ग्रन्थकृतां मार्गाः निशम्यन्तां समाहृताः ॥ अनादाविह संसारे दुर्वारे मकरध्वजे । कुले च कामिनीमूले का जातिपरिकल्पना ॥ यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता । तन्मे रेतः पिता वृङ्क्तामित्यप्यस्य निदर्शनम् ॥ अब्राह्मणो ब्राह्मणस्स्यात्प्रवरस्यानुमन्त्रणात् । इतिश्रुत्यर्थजिज्ञासा शाबरादिषु विस्तृता ॥ न संस्थानं नापि धातुः न भयाद्यं न चौषधम् । न वृत्तिः नापि चाचारः किंतु संकेत एव सः ॥ इत्यादीनि च वाक्यानि जातिविप्लववादिनाम् । विश्रुतान्येव सर्वत्र विज्ञेयोऽन्यत्र विस्तरः ॥ 9 श्रुतिस्मृतिनिबन्धेषु तद्व्याख्यानेषु यच्छ्रुतम् । भाष्यादिषु च यच्चोक्तं तत्सारांशोऽयमुच्यते ॥ जातिनाम्नोऽतिरिक्तस्य स्वीकर्तारस्तु वस्तुनः । ब्राह्मणत्वादिकां जातिं नरत्वावान्तरं विदुः ॥