मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 287, कुल 672 में से
संदर्भ में पढ़ेंजातिवादः मनूनां सर्गमकरोन्मुखबाहूरुपादतः । एते सावर्ण्यनामानः विष्वक्सेनागमोदिताः ॥ महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । इत्यत्र मनवस्तादृक्सावर्ण्या इति भाषितम् ॥ 10 प्रत्यक्षं ब्राह्मणत्वादि सहकारिव्यपेक्षया । घृतत्वादिवदित्युक्तं मीमांसातन्त्रवार्तिके ॥ सहकार्यत्रोपदेशः स पारम्परिको मतः । समूहलेख्यानि परंपराऽविस्मृतिकारणम् ॥ नहि तत्करणं लोके वेदे वा किंचिदीदृशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ तथाच संततिस्मृत्याऽनुगृहीतेन चक्षुषा । विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥ तथाच दृश्यते नानासहकारिव्यपेक्षया । चक्षुषो जातिविज्ञानजनकत्वं यथोदितम् ॥ सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् । तैलाद्धृतं विलीनं च गन्धेन तु रसेन वा ॥ भस्मप्रच्छादितो वह्निः स्पर्शनेनोपलभ्यते । अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥ संस्थानेन घटत्वादि ब्राह्मणत्वादि योनितः । क्वचिदाचारतश्चापि सम्यगाज्ञाऽनुपालितात् ॥