भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 288, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 288

246 मानमेयरहस्यश्लोकवार्तिके यत्समानवयोवेषपिण्डद्वयविलोकने । तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ॥ नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते । सादृश्यदोषात्तत्र स्याद्विभागस्यानवग्रहः ॥ समानरूपसंस्थानशुक्तिकाकलधौतयोः । विवेकस्सहसा नाभादिति कालान्तरेऽपि किम् विश्वामित्रे च कर्माधिकारमात्रस्य संभवः । न विप्रतादेः सांकर्यादिति कौस्तुभकृन्मतम् ॥ यामुनाचार्यहेमाद्रिमाधवप्रमुखा बुधाः । पन्थानमनुरुन्धाना अमुमेवेति निर्णयः ॥ 11 नाध्यक्षगम्या जातिस्सा किंतु स्मरणलक्षणा । इति मेधातिथेः विज्ञानेश्वरस्य च निर्णयः ॥ तथा सेश्वरमीमांसातत्त्वटीकादिकारिणः । औपदेशिकसिद्धान्तं स्थापयामासुरुर्जितम् ॥ तदन्वयविशेषेषु संभवो विप्रतादिकम् । अन्वयव्यतिरेकाभ्यां यथालोकं प्रतीयते ॥ संभवोऽपिच साङ्ख्याः स्यान्मातुरेवानुभाविकः । द्रव्यादीनां धर्मतावदन्येषां त्वौपदेशिकम् ॥ ते सन्ततिविशेषास्स्युः वृद्धा येषु प्रयुञ्जते । विप्रादिशब्दं येषां तु गोत्रार्षेयाद्यविस्मृतिः ॥