भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 292, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 292

भावाभावोपाधियोगः कार्यकारणता यदि । योगोपाधी न तावेव कार्यकारणताऽत्र किम् ॥ पश्यन्नेकमदृष्टस्य दर्शने तददर्शने । अपश्यन् कार्यमन्वेति विनाऽप्याख्यातृभिर्जनैः ॥ दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसंभवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थं निवेशिता ॥ तद्भावाभावतः कार्यगतिर्याऽप्यनुवर्ण्यते । संकेतविषयाख्या सा सास्नादेर्गौर्गतिर्यथा ॥ भावे भाविनि तद्भावः भाव एवच भाविता । प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ॥ एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः । विकल्पा दर्शयन्त्यर्थान्मिथ्यार्थाः घटितानिव ॥ भिन्ने का घटनाऽभिन्ने कार्यकारणताऽपि का । भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥ 4 संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकाराच्च न संबन्धी च तादृशः ॥ जनने चापि कार्यस्य केनचित्समवायिना । समवायि तदा नासौ न ततोऽतिप्रसङ्गतः ॥ तयोरनुपकारेऽपि समवाये परत्र वा । संबन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 292, कुल 672 में से · BharatKosha