मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 293, कुल 672 में से
संदर्भ में पढ़ेंसंयोगजननेऽप्येतौ नहि संयोगिनौ मतौ । कर्मादेर्योगितापत्तौ स्थितिश्च प्रतिवारिता ॥ इत्यादिको विस्तरोऽसौ सर्वशून्यत्ववादिनाम् । ग्रन्थेषु तूपलभ्येत प्रायस्ते शिथिला इह ॥ 5 एवमादीन् विवादांश्च समादधति केचन । तान् शून्याद्वैतसिद्धान्तशुद्धान्तस्तम्भलक्षणान् ॥ अनवस्था द्विधा त्वाद्या सिद्धा स्यात्कारणाश्रया । प्रमाणसिद्धा धारेयं न प्रसङ्गमिहार्हति ॥ कल्प्या द्वितीया सैवात्र संसर्गादौ प्रसञ्जिता । तत्र स्वपरनिर्वाहः नैरपेक्ष्यमिति द्वयी ॥ गतिरस्ति प्राथमिक्या निर्वाहः प्रकृते भवेत् । ज्ञातेन ज्ञानजनने नैरपेक्ष्यात्मिका गतिः ॥ इन्द्रियाण्यथ संस्कारः कारणं हि स्वरूपसत् । क्वचित्स्वपरनिर्वाहः स्वस्वभावनिबन्धनः ॥ परश्शतपरिक्षोदात्परस्तादपि वादिभिः । उपलब्धबले स्थेयं तदादावेव गृह्यताम् ॥ अतः कृत्स्नैकदेशादिविकल्पानुपपत्तितः । संबन्धतत्त्वापलापः शून्यवादस्य चाङ्कुरः ॥ निरंशत्वादथैकत्वात् न विकल्पोऽत्र तादृशः । स च सावयवानेकपदार्र्थविषयो मतः ॥