भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 295, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 295

सम्बन्धवादः 253 स च व्योमवदेवैकः नित्यस्सर्वगतोऽपिच । तस्यानेकत्वमिच्छन्ति चापरे नव्यतार्किकाः ॥ इति तार्किकसिद्धान्तः तत्र कौमारिलाशयः । समवायो हि संबन्धान्तराभावेऽपि योजयेत् ॥ स्वभावादेव तावेव यथा संबन्धिनौ तथा । विशिष्टव्यवहारं तमातन्वाते स्वभावतः ॥ द्रव्याद्रव्ये च तादात्म्यात्, समवायेन किं फलम्। त्रैकाल्यं यदि नित्यत्वं कालायोगिनि तत्कथम् ॥ यदि कारणशून्यत्वं यद्वा प्रध्वंसशून्यता । नित्यत्वं तत्प्रसज्येत प्रध्वंसप्रागभावयोः ॥ उभयान्तविहीनत्वं नित्यत्वं चेन्निरुच्यते । नित्ययोरिव सर्वेषां नित्यताऽत्र प्रसज्यते ॥ विशेषणविशेष्यात्मस्वभावान्नियमो यदि । अजागलस्तनसमस्समवायः प्रकल्पितः ॥ प्राभाकराः पुनस्तत्र काश्यपं मतमास्थिताः । तयोरेकत्वनित्यत्वाविवादोऽस्ति विशेषतः ॥ समवायाख्यसंबन्धानेकानित्यत्वहेतुतः । व्यक्त्यैक्यं सितनीलादेः विभुत्वं चोपपाद्यते ॥ नीलो नष्टस्सितो जातः इत्याद्या अपि बुद्धयः । संबन्धमूलास्सिद्ध्यन्ति लाघवं च महत्ततः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 295, कुल 672 में से · BharatKosha